________________
१९८
सूत्रकृताङ्ग सूत्रम् १/९/-१४६४ कुशीलः ‘सदा' सर्वकालं भिक्षणशीलो भिक्षु कुशीलो न भवेत्, न चापि कुशीलैः साधू संसर्ग' साङ्गत्यं भजेत' सेवेत, तत्संसर्गदोषोद्विभावविषयाऽऽह ।
'सुखरूपाः' सातगौरवस्वभावाः 'तत्र' तस्मिन्कुशीलसंसर्गेसंयमोपघातकारिणउपसर्गा प्रादुष्यन्ति, तथाहि-ते कुशीला वक्तारो भवन्ति-कः किल प्रासुकोदकेन हस्तपाददन्तादिके प्रक्षाल्यमाने दोषः स्यात् ?, तथा नाशरीरो धर्मो भवति इत्यतो येन केनचिटप्रकारेणाधाकर्मसन्निध्यादिना तथा उपानच्छत्रादिना च शरीरं धर्माधारं वर्तयेत्, उक्तंच॥१॥ "अप्पेण बहुमेसेज्जा, एयं पंडियलक्खणं" इति,
तथा-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः ।
शरीरात् स्वते धर्म, पर्वतात्सलिलं यथा ।। तथा साम्प्रतमल्पानि संहनानिअल्पधृतयश्च संयमेजन्तव इत्येवमादि कुशीलोक्तं श्रुत्वा अल्पसत्त्वास्तत्रानुषजन्तीति "विद्वान् विवेकी 'प्रतिबुध्येत' जानीयात् बुद्धा चापायरूपं कुशीलसंसर्ग परिहरेदिति । किश्चान्यत्-- मू. (४६५) नन्नत्य अंतराएणं, परगेहे न निसीयए।
गामकुमारियं किडं, नातियेलं हसे मुनी। वृ. तत्र साधुर्भिक्षादिनिमित्तं ग्रामादौ प्रविष्टः सन् परो-गृहस्थस्तस्य गृहं परगृहं तत्र ‘न निषीदेत् नोपवशेत् उत्सर्गतः, अस्यापवाददर्शयति नान्यत्र 'अन्तरायेणे तिअन्तरायः शक्यभावः, सच जरसा रोगातङ्काभ्यां स्यात्, तस्मिंश्चान्तराये सत्युपविशेत् यदिवा।
उपशमलब्धिमान कश्चित्सुसहायो गुर्वनुज्ञातः कस्यचित्तथाविधस्य धर्मदेशनानिमित्तमुपविशेदपि, तता ग्रामे कुमारका ग्रामकुमारकास्तेषामियं ग्रामकुमारिका काऽसौ ?-'क्रीडा' हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिका यदिवा वट्टकन्दुकादिका तां मुनिर्न कुर्यात् ।
तथा वेला-मर्यादा तामतिक्रान्तमतिवेलं न हसेत्, मर्यादामतिक्रम्य 'मुनिः' साधुः ज्ञानावरणीयाद्यष्टविधकर्मबन्धनभयान हसेत्, तथा चागमः- “जीवेणंभंते! हसमाणे उस्सूयमाणे वा कइ कम्मपगडीओ बंधइ?, गोयमा!, सत्तविहबंधए वा अट्टविहबंधए वा" इत्यादि। मू. (४६६) अनुस्सुओ उरालेसु, जयमाणो परिचए।
चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए। वृ.किञ्च-उराला' उदाराःशोभना मनोज्ञाये चक्रवत्यार्दीनांशब्दादिषुविषयेषुकामभोगा वस्त्राभरणगीतगन्धर्वयानवाहनादयस्तथा आज्ञैश्वर्यादयश्च एतेषूदारेषुद्दष्टेषु श्रुतेषुवानोत्सुकः स्यात्, पाठान्तरं वा न निश्रितोऽनिश्रितः-अप्रतिबद्धः स्यात् ।
__ यतमानश्च-संयमानुष्ठाने परि-समन्तान्मूलोत्तरगुणेषु उद्यमं कुर्वन् ‘व्रजेत्' संयमं गच्छेत् तथा चर्यायां भिक्षादिकायाम् 'अप्रत्तमः स्यात् नाहारादिषुरसगार्थ्यविदध्यादिति, तथा 'स्पृष्टश्च' परीषहोपसर्गस्तत्रादीनमनस्कः कर्मनिर्जरां मन्यमानो 'विषहेत्' सम्यक् सह्यादिति । मू. (४६७) हम्ममाणो न कुप्पेञ्ज, बुञ्चमाणो न संजले।
सुमणे अहियासिञ्जा, न य कोलाहलं करे। वृ.परीषहोपसर्गाधिसहनमेवाधिकृत्याह-'हन्यमानो यष्टिमुष्टिलकुटादिभिरपि हतश्च 'न
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org