________________
श्रुतस्कन्धः - १, अध्ययनं-९,
१९७ वृ.यो हि भाषासमितः स भाषमाणोऽपि धर्मकथासम्बन्धमभाषक एव स्यात्, उक्तंच
“वयणविहत्तीकुसलो वओगयं बहुविहं वियाणंतो।
दिवसंपि भासमाणो साहू वयगुत्तयं पत्तो ।। यदिवा-यत्रान्यःकश्चिद्रलाधिको भाषमाणस्तत्रान्तर एवसश्रुतिकोऽहमित्येवमभिमानवान्न भाषेत, तथा मर्म गच्छतीति मर्मगंवचो न ‘वंफेज'त्ति नाभिलषेत्, यद्वचनमुच्यमानंतध्यमतथ्यं वा सद्यस्य कस्यचिन्मनःपीडामाधत्ते तद्विवेकी न भाषेतेति भावः, यदिवा 'मामकं' ममीकारः पक्षपातस्तं भाषमाणोऽन्यदा वा 'न वंफेञ्जति' नाभिलषेत्।।
तथा 'मातृस्थानं माया प्रधानं वचो विवर्जयेत्, इदमुक्तं भवति-परवञ्चनबुद्धया गूढाचारप्रधानो भाषमाणोऽभाषमाणो वाऽन्यदा वा मातृस्थानं न कुर्यादिति, यदा तुवक्तुकामो भवति तदा जैतद्वचः परात्मनोरुभयोर्वा बाधकमित्येवं प्राग्विचिन्त्य वचनमुदाहरेत, तदुक्तम्-'पुब्वि बुद्धीए पेहित्ता, पच्छा वक्कमुदाहरे" इत्यादि। मू. (४६२) तत्थिमा तइया भासा, जं वदित्ताऽनुतप्पती।
जंछन्नं तं न वत्तव्यं, एसा आणां नियंठिया ।। वृ. अपिच-सत्या असत्या सत्वामृषा असत्यामृषेत्येवंरूपासुचतसृषुभाषासु मध्ये तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा सा च किञ्चिन्मृषा किञ्चित्सत्या इत्येवंरूपा ।
तद्यथा-दश दारका अस्मिन्नगरे जाता मृता वा, तदत्र न्यूनाधिकसम्भवे सति सङ्घयाया व्यभिचारात्सत्यामृषात्वमिति, यांचैवंरूपांभाषामुदित्वाअनु-पश्चाद्भाषणाञ्जन्मानतरेवा तजनितेन दोषेण 'तप्यते' पीड्यते क्लेशभाग्भवति ।
यदिवा-अनुतप्यते किं ममैवम्भूतेन भाषितेनेत्येवं पश्चात्तापंविधत्ते, ततश्चेदमुक्तंभवतिमिश्रापि भाषा दोषाय किं पुनरसत्या द्वितीया भाषा समस्तार्थविसंवादिनी ?, तथा प्रथमापि भाषा सत्यायाप्राण्युपतापेन दोषानुषङ्गिणीसानवाच्या, चतुर्थ्यप्यसत्यामृषाभाषाया बुधैरनाची सा न वक्तव्येति, सत्याया अपि दोषानुषङ्गित्वमधिकृत्याह ।
यद्वचः 'छन्नन्ति प्रच्छन्नं यल्लोकैरपि यत्नतः प्रच्छाद्यते तत्सत्यमपि न वक्तव्यमिति, 'एषाऽऽज्ञा' अयमुपदेशो निर्ग्रन्थो-भगवास्तस्येति। मू. (४६३) होलावायं सहीवायं, गोयावायं च नो वदे।
तुमंतुमति अमणुनं, सव्वसो तं न वत्तए। वृ.किञ्च-होलेत्येवंवादोहोलावादः, तथा सखेत्येवंवादः सखिवादः, तथा गोत्रोध्घाटनेन वादो गोत्रवादोयथा काश्यपसगोत्रे वसिष्ठसगोत्रे वेति। इत्येवंरूपंवादंसाधु!वदेत, तथा 'तुमं तुमति तिरस्कारप्रधानमेकवचनान्तं बहुवच- नोच्चारणयोग्ये 'अमनोज्ञ' मनः- प्रतिकूलरूपमन्यदप्येवम्भूतमपमानापादकं 'सर्वशः' सर्वथा तत्साधूनां वक्तुंन वर्तत इति । मू. (४६४) अकुसीले सया भिक्खू, नेव संसग्गिय भए।
सुहरूवा तत्थुवस्सग्गा, पडिबुझेजते विऊ । दृ. यदाश्रित्योक्तं नियुक्तिकारेण तद्यथा-"पासत्थोसण्णकुसील संथवोण किल वट्टए काउं" तदिदमित्याह-कुत्सितं शीलमस्येति कुशीलः स च पार्श्वस्थादीनामन्यतमः न कुशीलोऽ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org