________________
१९६
सूत्रकृताङ्ग सूत्रम् १/९/-/४५६ संयमविराधकत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । तथामू. (४५७) आसंदी पलियंके य, निसिजं च गिहतरे।
संपुच्छणं सरणं वा. नं विजं परिजाणिया ।। वृ. 'आसन्दी' त्यासनविशेषः, अस्य कापलक्षणार्थत्वात्सर्वोऽप्यासनविधिगृहीतः, तथा 'पर्यंकः शयनविशेषः, तथा गृहस्यान्तर्मध्ये गृहयोर्वा मध्ये निपद्यां वाऽऽसनं वा संयमविराधनाभयात्परिहरेत्, तथा चोक्तम् - ॥१॥ "गंभीरझुसिरा एते, पाणा दुप्पडिलेहगा।
अगुत्ती बंभोरस्स, इत्थीओ वावि संकणा ।। __इत्यादि, तथा तत्र गृहस्थगृहे कुशलादिप्रच्छनं आत्मीयशरीरावयवप्रच्छ नं वा तथा पूर्वक्रीडितस्मरणं चेत्येतत्सर्वं 'विद्वान् विदितवेद्यः सन्ननायेति ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् ॥ मू. (४५८) जसं कित्तिं सलोयं च, जाय वंदणपूयणा।
सव्वलोयंसि जे कामा, तं विजं परिजाणिया॥ दृ. अपिच बहुसमरसङ्घनिर्वहणशौर्यलक्षणं यशः दानसाध्या कीर्तिः जातितपोबाहुश्रुत्यादिजनिता श्लाघा, तथा या च सुराराधिपतिचक्रवर्तिबलदेववासुदेवादिभिर्वन्दना तथा तैरेव सत्कारपूर्विका वादिना पूजना । तथा सर्वस्मिन्नपि लोके इच्छामदनरूपा ये केचन कामास्तदेतत्सर्वं यशःकीर्ति मफ्कारितया परिज्ञाय परिहरेदिति । मू. (४५९) जेणेहं निव्वहे भिक्खू, अन्नपाणं तहाविहं ।
अनुप्पयाणमन्नेसिं, तं विजं परिजाणिया ।। वृ.किञ्चान्यत्-'येन' अन्नेन पानेन वातथाविधेनेति सुपरिशुद्धेन कारणापेक्षया त्वशुद्धन वा 'इह' अस्मिन् लोके इदं संयमपात्रादिकं दुर्भिक्षरोगातकादिकं वा भिक्षु निर्वहेत् निर्वाहयेद्वा तदन्नं पानं वा 'तथाविधं द्रव्यक्षेत्रकालभावापेक्षया 'शद्धं' कल्पं गृहीयात्ततैतेषाम्।
अन्नादीनामनुप्रदानमन्यस्मै साधव संयमयात्रानिर्वहणसमर्थमनुतिष्ठेत्, यदिवा-येन केनचिदनुष्ठितेन 'इमं संयम निर्वहेत् निर्वाहयेद् असारतामापादयेत्तथाविधमशनंपानंवाऽन्यद्वा तथा विधमनुष्ठानं नकुर्यात्, तथैतेषामशनादीनाम् 'अनुप्रदान गृहस्थानांपरतीथिकानां स्वयूथ्यानां वा संयमोपघातकं नानुशीलयेदिति, तदेतत्सर्वं ज्ञपरिज्ञया ज्ञात्वा सम्यक् परिहरेदिति । मू. (४६०) एवं उदाहु निग्गंथे, महावीरे महामुनी।
अनंतनाणदंसी से, धम्म देसितवं सुतं ।। वृ.यदुपदेशेनैतत्सर्वं कुर्यात्तंदर्शयितुमाह-एवम्' अनन्तरोक्तयानीत्या उद्देशकादेरारभ्य 'उदाहुत्ति उदाहृतवानुक्तवान् निर्गतः सबाह्याभ्यन्तरो ग्रन्थो यस्मात्स निर्ग्रन्थो।
___ महावीर' इति श्रीमद्वर्धमानस्वामी महांश्चासौ मुनिश्च महामुनि अनन्तं ज्ञानं दर्शनं च यस्यासावनन्तज्ञानदर्शनी स भगवान् 'धर्म' चारित्रलक्षणं संसारोत्तारणसमर्थं तथा 'श्रुतं च' जीवादिपदार्थसंसूचकं 'देशितवान्' प्रकाशितवान् किञ्चान्यत्मू. (४६१) भासमाणो न भासेज्जा, नेव वंफेज मम्मयं ।
मातिट्ठाणं विवजेजा, अनुचिंतिय वियागरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org