________________
श्रुतस्कन्धः - १, अध्ययनं-९,
निर्णयनानि, यदिवा-प्रश्नायतनानि लौकिकानां परस्परव्यवहारे मिथ्याशास्त्रगतसंशयेवाप्रश्ने सति यथावस्थितार्थकथनद्वारेणायतनानि-निर्णयनानीति ।
तथा 'सागारिकः' शय्यातरस्तस्य पिण्डम्-आहारं, यदिवा-सागारिकपिण्डमितिसूतकगृहपिण्डं जुगुप्सितं वापसदपिण्डं वा, चशब्दः समुच्चये।
तदेतत्सर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । किञ्चान्यत्मू. (४५३) अट्ठावयं न सिक्खिज्जा, वेहाईयं च नो वए।
हत्थकम्मं विवायंच, तं विजं परिजाणिया ।। वृ.अर्यतेइत्यर्थोधनधान्यहिरण्यादिकः पद्यते-गम्यते येनार्थस्तत्पदं-शास्त्रंअर्थार्थं पदमर्थपदं चाणक्यादिकमर्थशास्त्रं तन्न 'शिक्षेत्' नाभ्यस्येत् नाप्यपरं प्राण्युपमर्दकारि शास्त्र शिक्षयेत्, यदिवा-'अष्टापदं' द्यूतक्रीडाविशेषस्तंन शिक्षेत्, नापि पूर्वशिक्षितमनुशीलयेदिति, तथा 'वेधो' धर्मानुवेधस्तस्मादतीतं सद्धर्मानुवेधातीतम्-अधर्मप्रधानं वचो नो वदेत् यदिवा ।
वेध इति वस्त्रवेधो धूतविशेषस्तद्गतं वचनमपि नो वदेद् आस्तां तावक्रीडनमिति, हस्तकर्मप्रतीतं, यदिवा 'हस्तकर्म' हस्तक्रियापरस्परंहस्तव्यापारप्रधानः कलहस्तं, तथा विरुद्धवादं विवादं शुष्कवादमित्यर्थ, चः समुच्चये, तदेतत्सर्वं संसारभ्रमणकारणं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षीत । मू(४५४) पाणहाओ य छत्तं च, नालीयं वालवीयणं ।
परकिरियं अन्नमन्त्रंच, तं विजं परिजाणिया॥ व.किञ्च उपानहौ-काष्ठपादकेचतथा आतपादिनिवारणायछत्रंतथा 'नालिका द्यूतक्रीडाविशेषस्तथा वालैः मयूरपिच्छै व्यजनकं । तथा परेषां सम्बन्धिी क्रियामन्योऽन्यपरस्परतोऽन्यनिष्पाद्यामन्यः करोत्यपरनिष्पाद्यांचापर इति, चः समुच्चये, तदेतत्सर्वं 'विद्वान्' पण्डितः कर्मोपादानकारणत्वेन ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यान परिज्ञया परिहरेदिति । मू. (४५५) उञ्चारं पासवणं, हरिएसु न करे मुणी।
वियडेण वावि साहट, नावमजे कयाइवि।। वृ. तथा उच्चारप्रम्नवणादिकां क्रिया हरितेषूपरिबीजेषु वा अस्थण्डिले वा 'मुनि' साधुन कुर्यात्, तथा विकटेन' विगतजीवेनाप्युदकेन 'संहृत्य' अपनीय बीजानिहरितानिवा नाचमेत' न निर्लेपनं कुर्यात्, किमुताविकटेनेतिभावः। मू. (४५६) परमत्ते अन्नपाणं, न भुंजेञ्ज कयाइवि।
परवत्यं अचेलोऽवि, तं विजं परिजाणिया ।। वृ. किञ्च परस्य-गृहस्थस्यामत्रं-भाजनं परामत्रं तत्र पुरःकर्मपश्चात्कर्मभयात् हृतनष्टादिदोषसम्भवाच्च अन्नपानंच मुनिर्न कदाचिदपिभुजीत, यदिवा-पतद्ग्रहधारिश्छिद्रपाणे: पाणिपात्रं परपात्रं । यदिवा-पाणिपात्रस्या च्छिद्रपाणेर्जिनकल्पिकादैः पतद्ग्रहः परपात्रं तत्र संयमविराधनाभ- यान भुञ्जीत तथा परस्य-गृहस्थस्य वस्त्र परवस्त्रं तत्साधुरचेलोऽपि सन् पश्चात्कर्मादिदोषभयात् हृतनष्टादिदोषसम्मावाच्च न बिभृयात्, यदिवा-जिनकल्पिकादिकोऽचेलो मूत्वा सर्वमपि वस्त्रं परवस्नमिति कृत्वा न बिभृयाद्, तदेवत्सर्वं परपात्रभोजनादिकं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org