SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १९४ सूत्रकृताङ्ग सूत्रम् १/९/-/४४८ समुच्चयार्थ, एवकारोऽवधारणे, तथा बस्तिकर्म-अनुवा- सनारूपं तथा । _ 'विरेचनं' निरूहात्मकमधोविरेको वा वमनम्-ऊर्ध्वविरेकस्तथाऽञ्जनं नयनयोः, इत्येवमादिकमन्यदपि शरीरसंस्कारादिकंयत् संयमपलिमन्थकारि' संयमोपघातरूपंतदेतद्विद्वाम् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत अपिचमू. (४४९) गंधमल्लसिणाण च, दंतपक्खालणं तहा। परिग्गहित्थिकम्मंच, तं विजं परिजाणिया॥ वृ. 'गन्धाः' कोष्ठपुटादयः 'माल्यं' जात्यादिकं स्नानंच' शरीरप्रक्षालनं देशतः सर्वतश्च, तथा दन्तप्रक्षालनं कदम्बकाष्ठादिना तथा परिग्रहः' सच्चित्तादेःस्वीकरणं तथा स्त्रियो-दिव्यमानुषतैरश्च्यः तथा 'कर्म' हस्तकर्म सावद्यानुष्ठानं वा तदेतत्सर्व कर्मोपादानतया संसारकारणत्वेन परिज्ञाय विद्वान् परित्यजेदिति।। मू. (४५०) उद्देसियं कीयगडं,पामिन्चं चेव आहडं। पूर्य अनेसणिशं च, तं विजं परिजाणिया ।। वृ. किञ्चान्यत्-साध्वाधुद्देशेन यद्दानाय व्यवस्थाप्यते तदुद्देशिकं, तथा 'क्रीत' क्रयस्तेन क्रीतं-गृहीतंक्रीतक्रीतं 'पामिच्छति साध्वर्थमन्यत उद्यतकं यद्गृह्यतेतत्तदुच्यतेचकारः समुच्चयार्थः एवकारोऽवधारणार्थः । साध्वयं यद्गृहस्थेनानीयते तदाहृतं, तथा 'पूय'मिति आधाकर्मावयवसम्पृक्तं शुद्धमप्या-हारजातं पूति भवति, किंबहुनोक्तेन ?, यत् केनचिद्दोषेणानेषणीयम्अशुद्धं तत्सर्वं विद्वान् परिज्ञाय संसारकारणतया निस्पृहः सन् प्रत्याचक्षीतेति। मू. (४५१) आसूणिमक्खिरागंच, गिद्धवधायकम्मगं। उच्छोलणं च कथं च, तं विजं परिजाणिया ।। वृ.किञ्च-येनधृतपानादिना आहारविशेषेण रसानक्रियया वाअशूनः सन् आ-समन्तात् शूनीभवति-बलवानुपजायते तदाशूनीत्युच्यते, यदिवा आसूणित्ति-श्लाधा यतः श्लाधया क्रियमाणया आ-समन्तात् शूनवच्छूनो लघुप्रकृति कश्चिद्दपध्मिातत्वात् स्तब्धो भवति । तथा अक्षणां 'रागो' रञ्जनं सौवीरादिकमजनमितियावत्, एवं रसेषु शब्दादिषु विषयेषु वा 'गृद्धिं गाद्धर्य तात्पर्यमासेवा, तथोपघातकर्म-अपरापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनामुपघातो भवति तदुपघातकर्मेत्युच्यते, तदेव लेशतो दर्शयति । ___'उच्छोलनं'तिअयतनयाशीतोदकादिना हस्तपादादिप्रक्षालनंतथा कल्कं लोघ्रादिद्रव्यसमुदायेन शरीरोद्वर्तनकं तदेतत्सर्वं कर्मबन्धनायेत्येवं विद्वान्' पण्डितो ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति। मू. (४५२) संपसारी कयकिरिए, पसिणायतणाणि य। सागारियं च पिंडं च, तं विजं परिजाणिया। वृ.अपिच-असंयतैः सार्धं सम्प्रसारणं-पर्यालोचनं परिहरेदिति वाक्यशेषः, एवमसंयमानुष्ठान प्रत्युपदेशदानं, तथा 'कंयकिरिओ' नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठानप्रशंसनं । तथा प्रश्नस्य-आदर्शप्रश्नादेः 'आयतमनम्' आविष्करणं कथनं यथाविवक्षितप्रश्न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy