________________
श्रुतस्कन्धः - १, अध्ययन- - ९,
१९३
ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयः तथा रसात्-दधिसौवीरकादेर्जाता रसजास्तथा संस्वेदाज्जाताः संस्वेदजा-यूकामत्कुणादयः 'उद्भिज्जाः' खञ्जरीटकदर्दुरादय इति, अज्ञातभेदा हिदुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति ।
पू. (४४५)
एतेहिं छहिं काएहिं तं विज्जं परिजाणिया । मणसा कायवक्केणं, नारंभी न परिग्गही ।।
वृ. 'एभिः ' पूर्वोक्तैः षद्भिरपि 'कायै: ' त्रसस्थावररूपैः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नर्नारम्भी नापि परिग्रही स्यादिति सम्बन्धः, तदेतद् 'विद्वान्' सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया मनोवाक्कायकर्मभिज्जीवोपमर्दकारिणमारम्भं परिग्रहं च परिहरेदिति । पू. (४४६) मुसावायं बहिध्धं च, उग्गहं च अजाइया । सत्यादाणाइं लोगंसि, तं विज्जं परिजाणिया ॥
वृ. शेषव्रतान्यधिकृत्याह- मृषा-असद्भूतो वादो मृषावादस्तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत् तथा । 'बहिर्द्ध'ति मैथुनं 'अवग्रहं' परिग्रहमयाचितम् अदत्तादानं, यदिवा बहिद्धमितिमैथुनपरिग्रही अवग्रहमयाचितमित्यनेनादत्तादानं गृहीतं, एतानि च मृषावादादीनि प्राण्युपतापकारित्वात् शस्त्राणीव शस्त्राणि वर्तन्ते ।
तथाऽऽदीयते -गृह्यतेऽष्टप्रकारं कर्मैभिरिति कर्मोपादानकरणान्यस्मिन् लोके, तदेवतसर्वं विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति ।
मू. (४४७)
पलिउंचण च भयणं च, थंडिल्लुस्सयणाणि या ।
धूणादाणाई लोगंसि, तं विज्जं परिजाणिया ||
वृ. किञ्चान्यत् पञ्चमहाव्रतधारणमपि कषायिणो निष्फलं स्यादतस्तस्साफल्यापादनार्थं कषायनिरोधो विधेय इति दर्शयति-परि-समन्तात् कुञ्चयन्ते वक्रतामापाद्यन्ते क्रिया येन मायानुष्ठानेन तत्पलिकुञ्चनं मायेति भण्यते, तथा भज्यते सर्वत्रात्मा प्रहीक्रियते येन स भजनोलोभस्तं ।
तथा यदुदयेन ह्यात्मा सदसद्विवेकविकलात्वात् स्थण्डिलवद्भवति स स्थण्डिलः-क्रोधः, यस्मिश्च सत्यर्ध्वश्रयति जात्यादिना दर्पाध्मातः पुरुष उत्तानीभवति स उच्छ्रायो-मानः, छान्दसत्वान्नपुंसफलिङ्गता, जात्यादिमदस्थानानां बहुत्वात् तत्कार्यस्यापि मानसय बहुत्वमतो बहुवचनं, चकाराः स्वगतभेदसंसूचनार्था समुञ्चयार्था वा, धूनयेति प्रत्येकं क्रिया योजनीया ।
तद्यथा-पलिकुञ्चनं मायां धूनय धूनीहि वा, तथा भजनं-लोभं, तथा स्थण्डिलं-क्रोधं, तथा उच्छ्रायं मानं, विचित्रत्वात् सूत्रस्य क्रमोल्लङ्घनेन निर्देशो न दोषायेति, यदिवा - रागस्य दुस्त्यजत्वात् लोभस्य च भायापूर्वकत्वादित्यादावेव मायालोभयोरुपन्यास इति, कषायपरित्यागे विधेये पुनरपरं कारणमाह । एतानि पलिकुञ्चनादीनि अस्मिन् लोके आदानानि वर्त्तन्ते, तदेतद्विद्वान् ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याचक्षी |
भू. (४४८)
धोयणं रयणं चैव, बत्थीकम्मं विरेयणं ।
वमणंजण पलीमंथ, तं विज्जं परिजाणिया ।।
वृ. पुनरप्युत्तरगुणानधिकृत्याह - घावनं प्रक्षालनं हस्तपादवस्रादेि रञ्जनमपि तस्यैव, चकारः
213
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org