________________
१९२
मू. (४४२)
सूत्रकृताङ्ग सूत्रम् १/९/-/४४२
एयमङ्कं सपेहाए, परमट्ठानुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ।।
वृ. किञ्चान्यत्-धर्मरहितानां स्वकृतकर्मविलुप्यमानानौमहिकामुष्मिकयोर्न कश्चित्राणायेति एनं पूर्वोक्तमर्थ स प्रेक्षापूर्वकारी 'प्रत्युपेक्ष्य' विद्यार्यावगम्य च परमः प्रधानभूतो ( Sर्थो) मोक्षः संयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुगामुकः सम्यगदर्शनादिस्तं च प्रत्युपेक्ष्य, क्त्वाप्रत्ययान्तस्य पूर्वकालवाचितया क्रियान्तरसव्यपेक्षत्वात् तदाह ।
निर्गतं ममत्वं बाह्याभ्यन्तरेषु वस्तुषु यस्मादसौ निर्ममः तथा निर्गतोऽहङ्कारः - अभिमानः पूर्वैश्वर्यजात्यादिमदजनितस्तथा तपःस्वाध्यायलाभादिजनितो वा यस्मादसौ निरहङ्कारोरागद्वेषरहित इत्यर्थः, स एवम्भूतो भिक्षुर्जिनैराहितः प्रतिपादितोऽनुष्ठितो वा यो मार्गों जिनानां वा सम्बन्धी योऽभिहितो मार्गस्तं 'चरेद्' अनुतिष्ठेदिति ॥
मू. (४४३)
चिद्या वित्तं च पुत्ते य, नाइओ य परिग्गहं । चिच्चा ण अंतगं सोयं, निरवेक्खो परिव्वए ।
वृ. अपिच- संसारस्वभावपरिज्ञानपरिकमूर्मितमतिर्विदितवेद्यः सम्यक् ‘त्यक्त्वा' परित्यज्य किं तद् ? - 'वित्तं' द्रव्यजातं पुत्रांश्च त्यक्त्वा, पुत्रेष्वधिकः स्नेहो भवतीति पुत्रग्रहणं, तथा 'ज्ञातीन् ' स्वजनांश्च त्यक्त्वा तथा 'परिग्रहं' चान्तरममत्वरूपं णकारो वाक्यालङ्कारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः ।
अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग आन्तर इत्यर्थः तं तथा भूतं 'शोकं' संतापं ‘त्यक्त्वा' परित्यज्य श्रीतो वा मिथ्यात्वाविरतिप्रमादकषायात्मकं कर्माश्रवद्वारभूतं परित्यज्य, पाठान्तरं वा 'चिच्चा णऽणंतगं सोयं' अन्तं गच्छतीत्यन्तगं न अन्तगमनन्तगं श्रोतः शोकं वा परित्यज्य 'निरपेक्षः' पुत्रदारधनधान्यहिरण्यादिकमनपेक्षमाणः सन् आमोक्षाय परिसमन्तात् संयमानुष्ठाने 'व्रजेत्' परिव्रजेदिति, तथा चोक्तम् -
119 11
"छलिया अवयक्खता निरावयक्खा गया अविग्घेणं ।
तम्हा पवयणसारे निरावयक्खेण होयव्वं ॥ भोगे अवयक्ता पति संसार सागरे धोरे। भोगेहि निरवयक्खा तरंति संसारकंतारं ॥ (इति) पुढवी उ अगणी वाऊ, तणरुक्ख सबीयगा । अंडया पोयजराउ, रससंसेयउब्भिया ।।
मू. (४४४)
वृ. स एवं प्रव्रजितः सुव्रतावस्थितात्माऽहिंसादिषु व्रतेषु प्रयतेत, तत्राहिंसाप्रसिद्धयर्थमाह'पुढवी उ' इत्यादि श्लोकद्वयं तत्र पृथिवीकायिकाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नाः तथाऽप्रकायिका अग्निकायिका वायुकायिकाश्चैवम्भूता एव, वनस्पतिकायिकान् लेशतः सभेदानाह - 'तृणानि ' कुशवञ्चकादीनि 'वृक्षाः ' चूताशोकादिकाः सह बीजैर्वर्तन्त इति सबीजाः, बीजानि तु शालिगोधूमयवादीनि ।
एते एकेन्द्रियाः पञ्चापि कायाः षष्ठत्रसकायनिरूपणायाह- अण्डाज्जाता अण्डजाःशकुनिगृहकोकिलकसरीसृपादयः तथा पोता एव जाताः पोतजा-स्तिशरभादयः तथा जरायुजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org