________________
श्रुतस्कन्धः - १, अध्ययनं - ९.
नानाविधैरुपायैर्भैक्ष्यमेषन्त्यन्यान वा विषयसाधनानि ते सर्वेऽप्येषिका इत्युच्यन्ते ।
तथा 'वैशिका' वणिजी मायाप्रधानाः कलोपजीविनः, तथा 'शूद्राः कृषीवलादयः आभीरजातीयाः कियन्तो वा वक्ष्यन्त इति दर्शयति-ये चान्ये वर्णापसदा नानारूपसावद्य 'आरम्भ निश्रिता' यन्त्रपीडननिर्लाञ्छनकर्माङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमर्द्दकारिणः तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्धत इत्युत्तरश्लोके क्रियेति । पू. (४३९) परिग्गहनिविद्वाणं, वेरं तेसिं पवड्ढई । आरंभसंभिया कामा, न ते दुक्खविमोयगा ।।
वृ. किञ्च परि-समन्तात् गृह्य इति परिग्रहो-द्विपदचतुष्पदधनधान्यहिरण्यसुवर्णादिषु ममीकारस्तत्र 'निविष्टानाम्' अध्युपपन्नानां गार्ध्यं गतानां 'पापम्' असातवेदनीयादिकं 'तेषां ' प्रागुक्तानामारम्भनिश्चितानां परिग्रहे निविष्टानां प्रकर्षेण 'वर्द्धते' वृद्धिमुपयाति जन्मान्तरशतेष्वपि दुर्मोचं भवति, क्वचित्पाठः ‘वेरं तेसिं पचड्ढइ' त्ति तत्र येन यस्य यथा प्राणिन उपमर्द क्रियते स तथैव संसारान्तर्वर्ती शतशो दुःखमाक् भवतीति ।
जमदग्निकृतवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्द्धत इति भावः किमित्येवं ?, यतस्ते कामेषु प्रवृत्ताः, कामाश्चारम्भैः सम्यग् भृताः संभृताः आरम्भपुष्टा आरम्भाश्च जीवोपमर्दकारिणः अतो न ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तद्विमोचका भवन्ति तस्यापनेतारो न भवन्तीत्यर्थः ।
मू. (४४०)
आधायकिञ्चमाहेडं, नाइओ विसएसिणो । अन्ने हरंति तं वित्तं, कम्मी कम्मेहिं किती ॥।
वृ. किञ्चान्यत् - आहन्यन्ते - अपनीयन्ते विनाश्यन्ते प्राणिनां दश प्रकारा अपि प्राणा यस्मिन् सआघातो-मरणं तस्मै तत्र वा कृतम् - अग्निसंस्कारजलाञ्जलिप्रदानपितृपिण्डादिकमाघातकृत्यं तदाघातुम् - आधाय कृत्वा पश्चात् 'ज्ञातयः' स्वजनाः पुत्रकलत्रभ्रातृव्यादयः, किम्भूताः ? - विषयानन्वेष्टुं शीलं येषां तेऽन्येऽपि विषयैषिणः सन्तस्तस्य दुःखार्जितं 'वित्तं' द्रव्यजातम् अपहरन्ति' स्वीकुर्वन्ति, तथा चोक्तम् -
119 11
" ततस्तेनार्जितैर्द्रव्यैदरिश्च परिरक्षितैः ।
१९१
क्रीडन्त्यन्ये नरा राजन् !, हष्टास्तुष्टा ह्यलङ्कृताः ॥
स तु द्रव्यार्जनपरायणः सावद्यानुष्ठानवान् कर्मवान् पापी स्वकृतैः कर्मभि संसारे 'कृत्यते' छिद्यते पीड्यत इतियावत् स्वजनाश्च तद्रव्योपजीविनस्तत्राणाय न भवन्तीति दर्शयितुमाहपू. (४४१) माया पिया हुसा भाया, भज्जा पुत्ता य ओरसा ।
नालं ते तव ताणाय, लुप्पंतस्स सकम्मुणा ॥
वृ. 'माता' जननी 'पिता' जनकः 'स्नुषा' पुत्रवधूः 'भ्राता' सहोदरः तथा 'भार्या' कलत्रं पुत्राश्चौरसाः स्वनिष्पादता एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले स्वकर्मभिर्विलुप्यमानस्य त्राणाय 'नालं' न समर्था भवन्तीति ।
इहापि तावत्रैते त्राणाय किमुतामुत्रेति, दृष्टान्तश्चात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, तेन महासत्त्वेन स्वजनाभ्यर्थितेनापि न प्राणिष्वपकृतम्, अपि त्वात्मन्येवेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org