________________
सूत्रकृताङ्ग सूत्रम् १/३/२/१९६
वृ. 'राजानः' चक्रवत्यादयो ‘राजामात्याश्च' मन्त्रीपुरोहितप्रभृतयः तथा ब्राह्मणा अथवा 'क्षत्रिया' इक्ष्वाकुवंशजप्रभृतयः, एते सर्वेऽपि भोगैः' शब्दादिभिर्विषयैः 'निमन्त्रयन्ति भोगोपभोगं प्रत्यभ्युपगमं कारयन्ति, कम्? -भिक्षुकं “साधुजीविणमिति साध्वाचारेण जीवितुं शीलमस्येति साधुजीविनमिति, यथा ब्रह्मदत्तचक्रवर्तिना नानाविधैर्भोगैश्चित्रसारुपनिमन्त्रित इति । एवमन्येऽपिकेनचित्सम्बन्धेन व्यवस्थितायौवनरूपादिगुणोपेतंसाधुं विषयोद्देशोप-निमन्त्रयेयुरिति मू. (१९७) हत्थऽस्सरहजाणेहिं, विहारगमणेहि य।।
भुंज भोगे इमे सग्घे, महरिसी! पूजयामुतं॥ वृ. एतदेव दर्शयितुमाह-हस्त्यश्वरथयानैः तथा विहारगमनैः विहरणं क्रीडनं विहारस्तेन गमनानि विहारगमनानि-उद्यानादौ क्रीडया गमनानीत्यर्थः, चशब्दादन्यैश्चेन्द्रियानुकूलैविषयैरुपनिमन्त्रयेयुः, तद्यथा-भुङ्क भोगान्' शब्दादिविषयान् ‘इमान् अस्माभिौंकितान्प्रत्यक्षासन्नान् श्लाध्यान्' प्रशस्तान् अनिन्द्यान् ‘महर्षे' साधो! वयं विषयोपकरणढौकनेन त्वां' भवन्तं 'पूजयामः' सत्कारयाम इति किञ्चान्यत्मू. (१९८) वत्थगंधमलंकार, इत्थीओ सयणाणि य।
भुंजाहिमाइं भोगाई, आउसो ! पूजयामुतं ।। वृ. 'वस्त्रं' चीनांशुकादि गन्धाः' कोष्ठपुटपाकादयः, वस्त्राणिचगन्धाश्च वस्त्रगन्धमिति समाहारद्वन्द्वः तथा 'अलङ्कारम्' कटककेयूरादिकं तथा 'स्त्रियः' प्रत्यग्रयौवनाः 'शयनानि च' पर्यङ्कतूलाप्रच्छदपटोपधानयुक्तानि, इमान् भोगानिन्द्रियमनोऽनुकूलानस्माभित्रैकितान् ‘भुंज' तदुपभोगेन सफलीकुरु, हे आयुष्मन् ! भवन्तं 'पूजयामः' सत्कारयाम इति । मू. (१९९) जो तुमे नियमो चिन्नो, भिक्खुभावंमि सुव्वया!।
अगारमावसंतस्स, सब्बो संविजए तहा।। वृ.अपिच-यस्त्वया पूर्व भिक्षुभावे प्रव्रज्यावसरे नियमो' महाव्रतादिरूपः 'चीर्ण अनुष्ठितः इन्द्रियनोइन्द्रियोपशमगतेन हे सुव्रत! ससाम्प्रतमपि अगारं' गृहम् आवसतः' गृहस्थभावंसम्यग् अनुपालयतो भवतस्तथैव विद्यत इति, न हि सुकृतदुष्कृतस्यानुचीर्णस्य नाशोऽस्तीति भावः। किञ्च. भू. (२००) चिरं दुइजमाणस्स, दोसो दाणिं कुतो तव?।
इलेवणं निमंति, नीवारेण व सूयरं । चिरं' प्रभूतं कालं संयमानुष्ठानेन ‘दुइजमाणस्स'त्ति विहरतः सतः ‘इदानीं' साम्प्रतं दोषः गुलस्तव?, नैवास्तीति भावः, इत्येवं हस्त्यश्वादिभिर्वस्त्रगन्धालङ्कारादिभिश्च नानाविधैरुप
गाप-करणैः करणभूतैः 'ण' मिति वाक्यालङ्कारे 'त' भिक्षुसाधुजीविनं निमन्त्रयन्ति' भोगबुद्धिं कारयन्ति दृष्टान्तं दर्शयति-यथा 'नीवारेण' ब्रीहिविशेषकणदानेन 'सूकर वराहं कूटके प्रवेशयन्ति एवं तमपि सामिति ॥ भू.२०/ोमा भिखार लाए. अचयंता जवित्तए।
सपा विसीयति, उखाणंसि व दुब्बला ।। १. यस्ताचार्लोपसंहारासंभा-भिक्षूणा-साधूनामुद्युक्तविहारिणांचर्या-दशविधवरुवालसामातारी समिरमादिका तः मोदिताः प्रेरिता यदिवा भिक्षुचर्यया करणभूतया
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org