________________
श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशकः - २ मू. (१९२) विबद्धो नातिसंगेहि, हत्थीवावी नवग्गहे।
पिट्टतो परिसप्पंति, सुयगोव्च अदूरए।। वृ. विविधं बद्धः-परवशीकृतः विबद्धो ज्ञातिसङ्गैः-मातापित्रादिसम्बन्धैः, ते च तस्य तस्मिन्नवसरेसर्वमनुकूलमनुतिष्ठन्तो धृतिमुत्पादयन्ति, हस्तीवापि नवग्रहे' अभिनवग्रहणे, (यथा स) धृत्युत्पादनार्थमिक्षुशकलादिभिरुपचर्यते, एवमसावपि सर्वानुकूलैरुपायैरुपचर्यते, दृष्टान्तान्तरमाह-यथाऽभिनवप्रसूता गौर्निजस्तनन्धयस्य 'अदूरगा' समीपवर्तिनी सती पृष्ठतः परिसर्पति, एवं तेऽपि निजा उप्रव्रजितंपुनर्जातमिवमन्यमानाः पृष्ठतोऽनुसर्पन्ति-तन्मार्गानुयायिनो भवन्तीत्यर्थः॥ मू. (१९३) एते संगा मणूसाणं, पाताला व अतारिमा ।
कीवा जत्थ य किस्संति, नाइसंगेहिं मुच्छिया ।। वृ. सङ्गदोषदर्शनायाह 'एते' पूर्वोक्ताः सज्यन्त इतिसङ्गाः-मातृपित्रादिसम्बन्धाः कर्मोपादानहेतवः, मनुष्याणां 'पाताला इव' समुद्रा इवाप्रतिष्ठितभूमितलत्वात् ते 'अतारिमत्ति दुस्तराः, एवमेतेऽपि सङ्गा अल्पसत्चैर्दुखेनातिलश्यन्ते, 'यत्रच' येषुसङ्गेषु क्लीबा' असमर्धा क्लिश्यन्ति' क्लेशमनुभवन्ति, संसारान्तर्वर्तिनो भवन्तीत्यर्थ, किंभूताः ?-'ज्ञातिसङ्गैः पुत्रादिसम्बन्धैः 'मूर्छिता' गृद्धा अध्युपपन्नाः सन्तो, न पर्यालोचयन्त्यात्मानं संसारान्तर्वर्तिनमेवं क्लिश्यन्तमिति अपिचमू. (१९४) तंच भिक्खू परित्राय, सव्वे संगा महासवा ।
जीवियं नावकंखिज्जा, सोचा, धम्ममनुत्तरं ।। वृ. 'तंच' ज्ञातिसङ्गं संसारैकहेतुंभिक्षु परिज्ञया (ज्ञात्वा) प्रत्याख्यानपरिज्ञया परिहरेत् किमिति?, यतः ‘सर्वेऽपि ये केचन सङ्गास्ते 'महाश्रवा' महान्ति कर्मण आश्रवद्वाराणि वर्तन्ते ततोऽनुकूलैरुपसर्गरुपस्थितैरसंयमजीवितं-गृहावासपाशं 'नाभिकाक्षेत्' नाभिलषेत्, प्रतिकूलैचोपसर्गसद्भिर्जीविताभिलाषीन भवेद, असमञ्जसकारित्वेन भवजीवितं नाभिकाङ्क्षत् कि कृत्वा ?-'श्रुत्वा' निशम्यावगम्य, कम् ?-'धर्म' श्रुतचारित्राख्यं, नास्योत्तरोऽस्तीत्यनुत्तरंप्रधानं मौनीन्द्रमित्यर्थः ।। मू. (१९५) अहिमे संति आवट्टा, कासवेणं पवेइया ।
बुद्धा जत्थावसप्पंति, सीयंति अबहा जहिं।। वृ.अन्यच्च-'अथे' त्यधिकारान्तरदर्शनार्थ, पाठान्तरं वा 'अहो' इति, तच्च विस्मये, 'इमे' इति एते प्रत्यक्षासन्नाः सर्वजनविदितत्वात् 'सन्ति' विद्यन्ते वक्ष्यमाणा आवर्तयन्ति-प्राणिनं भ्रामय-न्तीत्वावर्ता, तत्र द्रव्यावर्तानद्यादेः भावावर्तास्तूत्कटमोहोदयापादितविषयाभिलाषसंपादकसंपप्रार्थनाविशेषाः । एते चावर्ता 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिना उत्पन्नदिव्यज्ञानेन 'आ(प्रोवेदिताः' कथिताः प्रतिपादिताः 'यत्र' येषु सत्सु 'बुद्धा' अवगततत्त्वा आवर्तविपाकवेदिनस्तेभ्यः 'अपसर्पन्ति' अप्रमत्ततया तद्दूरगामिनो भवन्ति, अबुद्धास्तु निर्विवेकतया येष्ववसीदन्ति-आसक्ति कुर्वन्तीति तानेवावर्तान् दर्शयितुमाहमू. (१९६) रायाणो रायऽमञ्चाय, माहणा अदुव खत्तिया।
निमंतयंति भोगेहिं, भिक्खूयं साहुजीविणं ।।
27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org