________________
सूत्रकृताङ्ग सूत्रम् १/३/२/१८६ पुत्राः 'ते' तव 'तात' पुत्र! 'क्षुल्लका' लघवः तथा भार्या पत्नी ते 'नवा' प्रत्यग्रयौवनाअभिनवोढा वा मा असौ त्वया परित्यक्ता सती अन्यं जनं गच्छेत्-उन्मार्गयायिनी स्याद्, अयं च महान् जनापवाद इति ॥ मू. (१८७) एहिताय ! घरंजामो, मा य कम्मे सह्य वयं ।
वितियंपि ताय! पासामो, जामु ताव सयं गिहं ।। वृ.अपिच-जानीमो वयं यथा त्वं कर्मभीरुस्तथापि 'एहि' आगच्छ गृहं 'यामो' गच्छामः मा त्वं किमपिसाम्प्रतं कर्म कृथाः, अपितु तव कर्मण्युपस्थिते वयं सहायका भविष्यामः-साहाय्यं करिष्यामः । एकवारं तावद्गृहकर्मभिर्भग्नस्त्वं तात ! पुनरपि द्वितीयं वारं पश्यामो' द्रक्ष्यामो यदस्माभिः सहायैर्भवतो भविष्यतीत्यतो ‘यामो गच्छामः तावत्स्वकं गृहं कुर्वेतदस्मद्वचनमिति मू. (१८८) गंतुं ताय! पुणो गच्छे, न तेणासमणो सिया।
अकामगं परिकम्म, को ते वारेउमरिहति ।। द, 'तात' पुत्र ! गत्वा गृहं स्वजनवर्ग दृष्ट्वा पुनरागन्ताऽसि, नच 'तेन एतावता गृहगमनमात्रेण त्वमश्रमणो भविष्यसि, 'अकामगं'ति अनिच्छन्तंगृहव्यापारेच्छारहितं पराक्रमन्त' स्वाभिप्रेतानुष्ठानं कुर्वाणं कः ‘त्वां' भवन्तं 'वारयितुं' निषेधयितुम् ‘अर्हति' योग्यो भवति, यदिवा-'अकामगं'ति वार्द्धकावस्थायां मदनेच्छाकामरहितं पराक्रमन्तं संयमानुष्ठानं प्रति कस्त्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति ।। मू. (१८९) जंकिंचि अणगंतात!, तंपि सव्वं समीकतं।
हिरन्नं ववहाराइ, तंपि दाहामु ते वयं ॥ वृ. अन्यच्च-'तात' पुत्र! यत्किमपि भवदीयमृणजातमासीत्तत्सर्वमस्माभिः सम्यग्विभज्य 'समीकृतं' समभागेन व्यवस्थापितं, यदिवोत्कटं सत् समीकृतं-सुदेयत्वेन व्यवस्थापितं, यच्च 'हिरण्यं द्रव्यजातंव्यवहारादावुपयुज्यते, आदिशब्दात्अन्येन वा प्रकारेण तवोपयोगंयास्यति तदपि वयं दास्यामः, निर्धनोऽयमिति मा कृथा भयमिति ।। उपसंहारार्थमाहमू. (१९०) इचैव णं सुसेहंति, कालुणीयसमुट्टिया।
विबद्धो नाइसंगेहि, ततोऽगारं पहावइ। वृ. णमिति वाक्यालङ्कारे 'इत्येव' पूर्वोक्तया नीत्या मातापित्रादयः कारुणिकैर्वचोभिः करुणामुत्पादयन्तः स्वयं वा दैन्यमुपस्थिताः 'तं प्रव्रजितंप्रव्रजन्तंवा 'सुसेहंति'त्ति सुष्टुशिक्षयन्ति व्युद्राहयन्ति, सचापरिणतधर्माऽल्पसत्त्वो गुरुकर्मा ज्ञातिसङ्गैर्विबद्धो-मातापितृपुत्रकलत्रादिमोहितः ततः ‘अगारं' गृहं प्रति धावति-प्रव्रज्यां परित्यज्य गृहपाशमनुबन्धातीति॥ मू. (१९१) जहा रुखं वणे जायं, मालुया पडिबंधई।
एव णं पडिबंधति, नातओ असमाहिणा || वृ. किन्चान्यत्-यथा वृक्षं 'वने' अटव्यां 'जातम् उत्पन्नं 'मालुया' वल्ली 'प्रतिबन्धाति' वेष्टयत्येवं 'णं' इति वाक्यालङ्कारे 'ज्ञातयः' स्वजनाः 'तं' यतिं असमाधिना प्रतिबन्धन्ति, ते तत्कुर्वन्ते येनास्यासमाधिरुत्पद्यत इति, तथा घोक्तम् - ॥१॥ “अमित्तो मित्तवेसेणं, कंठे धेत्तूण रोयइ।
मा मित्ता! सोग्गइंजाहि, दोवि गच्छामु दुग्गई।" अपिच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org