________________
श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशकः - २ मू. (१८२) अहिमे सुहुमा संगा, भिक्खुणं जे दुरुत्तरा।
जत्थ एगे विसीयंति, न चयंति जवित्तए।। वृ, 'अथ' इति आनन्तर्ये, प्रतिकूलोपसर्गानन्तरमनुकूलाःप्रतिपाद्यन्त इत्यानन्तर्यार्थ, ते 'इमे' अनन्तरमेवाभिधीयमानाः प्रत्यक्षासन्नवाचित्वादिदमाऽभिधीयन्ते, ते च 'सूक्ष्माः' प्रायश्चेतोविका-रकारित्वेनान्तराः, नप्रतिकूलोपसर्गाइव बाहुल्येन शरीरविकारकारित्वेन प्रकटतया बादरा इति, ‘सङ्गा' मातापित्रादिसम्बन्धाः।
यएते भिक्षूणां' साधूनामपि दुरुत्तरा' दुर्लफ्या-दुरतिक्रमणीया इति, प्रायोजीवितविघ्नकरैरपि प्रतिकूलोपसर्गेरुदीनुध्यिस्थ्यमवलम्बयितुं महापुरुषैः शक्यम्, एते त्वनुकूलोपसस्तिानप्युपायेन धर्माच्चयावयन्ति, ततोऽमीदुरुत्तराइति, यत्र' येषूपसर्गेषु सत्सु 'एके अल्पसत्त्वाः सदनुष्ठानं प्रति "विषीदन्ति' शीतलविहारित्वं भजन्ते सर्वथा वा-संयमं त्यजन्ति, नैवात्मानं संयमानुष्ठानेन 'यापयितुं'-वर्तयितुं तस्मिन् वा व्यवस्थापयितुं शकुवन्ति' समर्था भवन्तीति । मू. (१८३) अप्पेगे नायओ दिस्स, रोयंति परिवारिया।
पोसणे ताय! पुट्ठोऽसि, कस्स ताय! जहासिणे॥ वृ. तानेव सूक्ष्मसङ्गान् दर्शयितुमाह-'अपि संभावने 'एके तथाविधा ‘ज्ञातयः' स्वजना मातापित्रादयः प्रव्रजन्तंप्रद्रजितं वा 'दृष्टवा' उपलभ्य परिवार्य' वेष्टयित्वा रुदन्ति रुदन्तो वदन्ति च दीनं यथा-बाल्यात्प्रभृति त्वमस्माभि पोषितो वृद्धानांपालको भविष्यतीतिकृत्वा, ततोऽधुना 'नः' अस्मानपि त्वं 'तात !' पुत्र ‘पोषय' पालय, कस्य कृते-केन कारणेन कस्य वा बलेन तातास्मान् त्यजसि?, नास्माकं भवन्तमन्तरेण कश्चित्रातां विद्यत इति किञ्चमू. (१८४) पिया ते थैरओ तात!, ससा ते खुड्डिया इमा।
भायरो ते सगा तात!, सोयरा किं जहासिणे?। वृ. हे 'तात !' पुत्र ! पिता 'ते' तव स्थविरो' वृद्धः शतातीकः स्वसा' च भगिनी तव 'क्षुल्लिका' लध्वी अप्राप्तयौवना 'इमा' पुरोवर्तिनी प्रत्यक्षेति, तथा भ्रातरः 'ते' तव 'स्वका' निजास्तात ! “सोदरा' एकोदराः किमित्यस्मान् परित्यजसीति । मू. (१८५) मायरं पियरं पोस, एवं लोगो भविस्सति।
एवं खु लोइयं ताय!, जे पालंति य मायरं ।। वृ. तथा मायरमित्यादि, 'मातरं' जननीं तथा 'पितरं जनयितारं 'पुषाण' बिभृहि, एवं चकृते तवेहलोकः परलोकश्च भविष्यति, तातेदमेव 'लौकिकं लोकाचीर्णम्, अयमेव लौकिकः पन्था यदुत-वृद्धयोर्मातापित्रोः प्रतिपालनमिति, तथा चोक्तम् - ॥१॥ “गुरवो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कृतम् ।
अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ।।
-इति अपिचमू. (१८६) उत्तरा महुरुल्लावा, पुत्ता ते तात ! खुड्डया।
भारिया ते नवा तात!, मा सा अन्नंजणं गमे । वृ. 'उत्तराः प्रधानाः उत्तरोत्तरजाता वा मधुरो-मनोज्ञ उल्लापः-आलापोयेषां तेतथाविधाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org