________________
९४
सूत्रकृताङ्ग सूत्रम् १/३/१/१७८
येषामनार्याणांतेतथा, तथा मिथ्या-विपरीतासंस्थिता-स्वाग्रहारूढा भावना-अन्तःकरणवृत्तिर्येषां ते मिथ्यासंस्थितभावना-मिथ्यात्वोपहतहष्टय इत्यर्थः, हर्षश्च प्रद्वेषश्च हर्षप्रद्वेषं तदापन्ना रागद्वेषसमाकुला इतियावत्, त एवम्भूता अनार्या सदाचारं साधु क्रिडया प्रद्वेषेण वा क्रूरकर्मकारित्वात् ‘लूषयन्ति कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति एतदेव दर्शयितुमाहमू. (१७९) अप्पेगे पलियंते सिं, चारो चोरोत्ति सुव्वयं।
बंधति भिक्खुयं बाला, कसायवयणेहि य । वृ.अपिसंभावने, एकेअनार्या आत्मदण्डसमाचारा मिथ्यात्वोपहतबुद्धयो रागद्वेषपरिगताः साधु 'पलियंते सिं'ति अनार्यदेशपर्यन्ते वर्तमानं 'चारो'त्ति चरोऽयं 'चोरः' अयं स्तेन इत्येवं मत्वा सुव्रतंकदर्थयन्ति, तथाहि-'बमन्ति' रज्ज्वादिना संयमयन्ति भिक्षुकं भिक्षणशीलं 'बाला' अज्ञाः सदसद्विवेकविकलाः तथा 'कषायवचनश्च' क्रोधप्रधानकटकवचनैर्निर्भसंयन्तीति ।। मू. (१८०) तत्थ दंडेण संवीते, मुट्ठिणा अदु फलेण वा ।
नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ।। वृ अपिच-तत्र तस्मिन्ननार्यदेशपर्यन्ते वर्तमानः साधुरनायें 'दण्डेन' यष्टिना मुष्टिना वा 'संवीतः' प्रहतोऽथवा 'फलेन वा' मातुलिङ्गादिना खड्गादिना वा स साधुरेवं तैः कदर्थमानः कश्चिदपरिणतः ‘बालः' अज्ञो ज्ञातीनां स्वजनानां स्मरति, तद्यथा-यद्यत्र मम कश्चित् सम्बन्धी स्यातनाहमेवम्भूतांकदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथास्त्रीकद्धासती स्वग्रहातगमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां स्मरति एवमसावपीति॥ मू. (१८१) एते भो ! कसिणा फासा, फरुसा दुरहियासया।
हत्थी वा सरसंवित्ता, कीवा वस गया गिहं। तिबेमि। वृ. उपसंहारार्थमाह-भो इति शिष्यामन्त्रणं, य एत आदितः प्रभृति दंशमशकादयः पीडोत्पादकत्वेन परीषहा एवोपसर्गा अभिहिताः ‘कृत्स्नाः' संपूर्णाबाहुल्येनस्पृश्यन्ते-स्पर्शेन्द्रियेणानुभूयन्त इति स्पर्शा, कथम्भूताः ?- “परुषाः' परुषैरनार्ये कृतत्वात् पीडाकारिणः, ते चाल्पसत्त्वैर्दुखेनाधिसह्यन्तेतांश्चासहमाना लघुप्रकृतयः केचनाश्लाघामङ्गीकृत्य हस्तिन इव रणशिरसि
_ 'शरजालसंवीता' शरशताकुला भङ्गमुपयान्ति एवं क्लीबा' असमर्था अवशाः' परवशाः कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेवगताः, पाठान्तरं वा 'तिव्वसड्ढे'त्ति तीव्ररुपसर्गरभिद्रुताः 'शठाः' शठानुष्ठानाः संयम परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् ।
अध्ययनं-३ उद्देशकः-१ समाप्तः
- अध्ययन-३ उद्देशकः-२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहोपसर्गपरिज्ञाध्ययने उपसर्गा प्रतिपिपादयिषिताः,तेचानुकूलाः प्रतिकूलाच, तत्रप्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह त्वनुकूलाः प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्याऽऽदिसूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org