________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उदेशक:- २
सीदन्तश्चोदिताः- तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तञ्चोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं 'यापयितुं' वर्तयितुमसमर्थाः सन्तः ।
'तत्र' तस्मिन् संयमे मोक्षैकगमहेतौ भवकोटिशताबाप्ते 'मन्दा' जडा 'विषीदन्ति' शीतलविहारिणो भवन्ति, तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्णं संयमं परित्यजन्ति, दृष्टान्तमाहऊर्ध्वं यानमुद्यानं-मार्गस्योन्नतो भाग उट्टङ्कमित्यर्थ तस्मिन् उद्यानशिरसि उत्क्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति - ग्रीवां पातयित्वा तिष्ठन्ति नोत्क्षिप्तभरनिर्वाहका भवन्तीत्येवं तेऽपि भावभन्दा उत्क्षिप्तपञ्चमहाव्रतभारं वोढुमसमर्था पूर्वोक्तभावावर्ते परामग्ना विषीदन्ति किञ्चभू. (२०२) अचयंता व लूहेणं, उचहाणेण तज्जिया । तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा ॥
९९
बृ. 'रूक्षेण' संयमेनात्मानं यापयितुमशक्नुवन्तः तथा 'उपधानेन' अनशनादिना सबाह्याभ्यतेरण तपसा 'तर्जिता' बाधिताः सन्तः तत्र संयमे मन्दा विषीदन्ति 'उद्यानशिरसि ' उट्टङ्कमस्तके 'जीर्णो' दुर्वलो गौरव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते किं पुनर्जरद्गवस्येति जीर्णग्रहणम् एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं सम्भाव्यते, किं पुनरावर्तेरुपसर्गितानां मन्दानामिति ॥
भू. (२०३)
एवं निमंतणं लदुं, मुच्छिया गिद्ध इत्थीसु ।
अच्झोववन्ना कामेहिं, चोइजंता गया गिहं ॥ त्तिबेमि ॥
बृ. सर्वोपसंहारमाह-' एवं ' पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं 'निमन्त्रणं' विषयोपभोगं प्रति प्रार्थनं 'लब्ध्वा' प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु 'मूर्च्छिता' अत्यन्तासक्ताः । तथा स्त्रीषु 'गृद्धा' दत्तावधाना रमणीरागमोहिताः तथा 'कामेषु' इच्छामदनरूपेषु 'अध्युपपन्नाः ' कामगतचित्ताः संयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणा नोद्यमानाः संयमं प्रति प्रोत्साह्यमाना नोदनां सोढुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्यां परित्यज्याल्पसत्त्वा गृहं गतागृहस्थीभूताः । इति परिसमाप्तौ ब्रवीमीति पूर्ववत् ।
अध्ययनं -३ उद्देशकः-२ समाप्तः
-: अध्ययनं ३ उद्देशकः-३ :- :
वृ. उपसर्गपरिज्ञायां उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्वन्धः- इहानन्तरोद्देशकाभ्यामुपसर्गा अनुकूलप्रतिकूलभेदेनाभिहिताः, तैश्चाध्यात्मविषीदनं भवतीति तदनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
पू. (२०४)
जहा संगामकालंमि, पिट्ठतो भीरु वेहइ ।
वलयं ग्रहणं नूमं, को जाणइ पराजयं !
वृ. ध्ष्टान्तेन हि भन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव ध्यन्तमाह-यथा कश्चिद् 'भीरु' अकृतकरणः 'संग्रामकाले' पररानीकयुद्धावसरे समुपस्थित 'पृथ्तः प्रेते आदावेवापटप्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकपति । तदेव दर्शयति- 'चलय' मिपियनोदकं बलचाकारण व्यवस्थितम् उदकरहिता वा गर्ता दुःखनिर्गमप्रवेशा, तथा 'गहनं' धवादिवृक्षैः कटिसंस्थानीयं 'तूम' ति प्रच्छन्नं गिरिगुहादिकं किमित्यसा वेवमवलोकयति ? यत एवं मन्यते तत्रैवम्भूते तुमुले
7
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
2