________________
१००
सूत्रकृताङ्ग सूत्रम् १/३/३/२०४
सङ्ग्रामे सुभटकुले को जानाति कस्यात्र पराजयो भविष्यतीति ?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीवन्त इति ॥ पू. (२०५)
मुहुत्ताणं मुहुत्तस्स, मुहत्तो होइ तारिसी । पराजियाऽवसप्पामो, इति भीरू उवेहई ॥
वृ. किञ्च मुहूर्तानामेकस्य वा मुहूर्तस्यापरो 'मुहूर्त' कालविशेषलक्षणोऽवसरस्ता भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं व्यवस्थिते पराजिता वयम् " अवसर्पामो नश्याम इत्येतदपि सम्भाव्यते अस्मद्विधानामिति भीरु पृष्ठत आपप्रतीकारार्थं शरणमुपेक्षते ॥ इति श्लोकद्वयेन यान्तं प्रदर्श्य दान्तिकमाह
मू. (२०६)
एवं तु समणा एगे, अबलं नच्चाण अप्पगं । अनागयं भयं दिस्स, अविकप्पंतिमं सुयं ॥
वृ. 'एवम्' इति यथा सङ्ग्रामं प्रवेष्टुमिच्छुः पृष्ठतोऽवलोकयति-किमत्र मम पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति ?, एवमेव 'श्रमणाः' प्रव्रजिता 'एके' केचनाध्ढमतयोऽल्पसत्त्वा आत्मानम् ‘अबलं' यावज्जीवं संयमाभारवहनाक्षमं ज्ञात्वा अनागतमेव भयं 'दृष्ट्वा' उत्प्रेक्ष्य तद्यथा - निष्किञ्च- नोऽहं किं मम वृद्धावस्थायां ग्लानाद्यवस्थायां दुर्भिक्षे वा त्राणाय स्यादित्येवमाजीविकाभयमुत्प्रेक्ष्य 'अवकल्पयन्ति' परिकल्पयन्ति मन्यन्ते-इदं व्याकरणं गणितं जोतिष्कं वैद्यकं होराशास्त्रं मन्त्रादिकं वा श्रुत मधीतं ममावमादौ त्राणाय स्यादिति ॥ को जाणइ विऊवातं, इत्थीओ उदगाउ वा । चोइज्जता पवक्खाणो, न नो अत्थि पकप्पियं ॥
पू. (२०७)
वृ. एतच्चैतेऽवकल्पयन्तीत्याह - अल्पसत्त्वाः प्राणिनो विचित्रा च कर्मणां गति बहूनि प्रमादस्थानानि विद्यन्ते अतः ' को जानाति ? ' कः परिच्छिनत्ति 'व्यापातं संयमजीवितात् भ्रंशं, केन पराजितस्य मम संयमाद् भ्रंशः स्यादिति, किम् 'स्त्रीतः' स्त्रीपरिषहात् उत 'उदकात्' स्नानाद्यर्थमुदकासेवनाभिलाषाद् ? इत्येवं ते वराकाः प्रकल्पयन्ति, न 'नः' अस्माकं किञ्चन 'प्रकल्पितं ' पूर्वोपार्जितद्रव्यजा- तमस्ति यत्तस्यामवस्थायामुपयोगं यास्यति, अतः 'चोद्यमानाः ' परेण पृच्छ्यमाना हस्तिशिक्षा- धनुर्वेदादिकं कुटिलविण्टलादिकंवा 'प्रवक्ष्यामः' कथयिष्यामः प्रयोक्ष्याम इत्येवं ते हीनसत्त्वाः सम्प्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति, तथा चोक्तम्
“उपशमफलाद्विधाबीजात्फलं धनमिच्छतां,
॥१॥
भवति विफलो यद्यायासस्तदत्र किमद्भुतम् ? । न नियतफलाः कर्तुर्भावाः फलान्तरमीशते, जनयति खलु व्रीहेर्बीजं न जातु यवाङ्कुरम् ॥ -इति उपसंहारार्थमाह
मू. (२००९)
इच्चेव पडिलेहंति, वलया पडिलेहिणो । वितिगिच्छसमावन्ना, पंथाणं च अकोविया ॥
वृ. 'इत्येवमि’ति पूर्वप्रक्रान्तपरामर्शार्थ, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International