SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२० सूत्रकृताङ्गसूत्रम् २/१/-/६४५ ॥१॥ “एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते। तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ।। इति, तथा प्रत्येक क्षेत्रवास्तुहिरण्यसुवर्णादिकं परिग्रहं शब्दादींश्च विषयान् मातापितृकलत्रादिकं च त्यजति, तथा प्रत्येकमुपपद्यते-युज्यते परिग्रहस्वीकरणतया, तथा प्रत्येकं झंझाकलहस्तदग्रहणात्कषायाः परिगृह्यन्ते,ततः प्रत्येकमेवासुमता मन्दतीव्रतया कषायोद्भवो भवति, तथा संज्ञानं संज्ञा-पदार्थपरिच्छित्ति, साऽपि मन्दमन्दतरपटुपटुतरभेदात्प्रत्येकमेवोपजायते, सर्वज्ञादारतस्तरतमयोगेन मतेर्व्यवस्थितत्वात्, तथा प्रत्येकमेव 'मन्नत्तिमननं चिन्तनं पर्यालोचनमितियावत्, तथा प्रत्येकमेव विष्णु त्तिविद्वान्, तथाप्रत्येकमेव सातासातरूपवेदना-सुखदुःखानुभवः, उपसंजिघृक्षुराह-'इतिखलु' इत्यादि, 'इति' एवं पूर्वोक्तेन प्रकारेणयतो नान्येन कृतमन्यः प्रतिसंवेदयते प्रत्येकं च जातिजरामरणादिकं ततः खल्वमी ज्ञातिसंयोगाः-स्वजनसंबन्धाः संसारचक्रवाले पर्यटतोऽत्यन्तपीडितस्यतदुद्धरणेन त्राणाय-नत्राणंकुर्वन्ति,नाप्यनागतसंरक्षणतः शरणाय भवन्ति, किमिति?, यतः पुरुष एकदा' क्रोधादयादिकाले ज्ञातिसंयोगान् विप्रजहाति' परित्यजति, स्वजनाचनबान्धवा' इति व्यवहारदर्शनात्, ज्ञातिसंयोगावैकदातदसदाचारदर्शनतः पूर्वमेव तं पुरुषं परित्यजन्ति-स्वसम्बन्धादुत्तारयन्ति । तदेवं व्यवस्थिते एतद्भावयेत्, तद्यथा-अन्ये खल्वमीज्ञातिसंयोगा मत्तो भिन्ना इत्वरा एभ्यश्चान्योऽहमस्मि । तदेवं व्यवस्थिते किमङ्ग पुनर्वयमन्यैरन्यैातिसंयोगैमूंछौं कुर्म ?, न तेषु मूच्र्छा क्रियमाणा न्याय्या इत्येवं 'संख्याय' ज्ञात्वा प्रत्याकलय्य वयमुत्पन्नवैराग्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं कृताध्यवसायिनो विदितवेद्या भवन्तीति। साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स मेघावी' सश्रुतिक एतद्' वक्ष्यमाणं जानीयात्, तद्यथा-बाह्यतरमेतत् यज्ज्ञतिसंबन्धनम्, इदमेवान्यदुपनीततरम्-आसन्नतरं, शरीरावयवानांभिन्नज्ञातिभ्यआसन्नतरत्वात्, तद्यथा-हस्तौ ममाशोकपल्लवसध्शी तथा भूजौकरिकराकारी पुरपुरंजयौ प्रणयिजनमनोरथपूरकौ शत्रुशतजीवितान्तकरौ यथा ममन तथाऽन्यस्य कस्यापीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगम,यावत्स्पर्शास्पर्शनन्द्रियं 'ममाति' ममीकरोति, याद्दने नताद्दगन्यस्येतिभावः, एतच्चहस्तपादादिकंस्पर्शनेन्द्रियपर्यवसानंशरीरावयवसंबन्धित्वेन विवक्षितं यत्किमपि वयसः परिणामात्-कालकृतावस्थाविशेषात् 'परिजूरइत्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरारुतां याति, तस्मिंश्च प्रतिसमयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतस्माद्मश्यति, तद्यथा-आयुषः पूर्वनिबद्धात्समयादिहान्याऽपचीयते, आवीचीमरणेनप्रतिसमयं मरणाभ्युपगमात्, तथा बलादपचीयते, तथाहि-यौवनावस्थायाश्च्यवमाने शरीरके प्रतिक्षणं शिथिलीभवत्सु संधिबन्धनेषु बलादवश्यं भ्रश्यते, तथा वर्णात्त्वचश्छायातोऽपचीयते, अत्रच सनत्कुमारदृष्टान्तो वाच्यः, तथाजीयति शरीरेश्रोत्रादीनीन्द्रियाणिनसम्यक् स्वविषयं परिच्छेतुमलं, तथा चोक्तम् - "बाल्यं वृद्धिर्वयो मेघा त्वकचक्षुशुक्रविक्रमाः। दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च ॥ तथा च विशिष्टवयोहान्या 'सुसंघितः' सुबद्धः संधि-जानुकूपरादिको 'विसंधिर्भवति' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy