________________
श्रुतस्कन्धः - २, अध्ययनं - 9,
३२१
विगलितबन्धनो भवतीत्यर्थः, तथा वलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगकृद्भवति किंपुनरन्येषां ?, तथा चोक्तम् ।
॥१॥
"वलिसंततमस्थिशेषितं, शिथिलस्नायुवतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीयविग्रहाः ? | तथा कृष्णाः केशा वयः परिणामजलप्रक्षालिता धवलतां प्रतिपद्यन्ते, तदेवं वयः परिणामापादितसन्मतिरेतद्भावयेत्, तद्यथा यदपीदं शरीरमुदारं- शोभनावयवरूपोपेतं विशि हारोपचितम् एतदपि मयाऽवश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहातव्यं भविष्यतीत्येदवगम्य शरीरानित्यतया संसारासारतां 'संख्याय' अवगम्य परित्यक्तसमस्त गृहप्रपञ्चो निष्किञ्चनतामुपगम्य स भिक्षुर्देहदीर्घसंयमयात्रार्थं भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयादिति ।
तदेव लोकद्वैविध्यं दर्शयितुमाह तद्यथा - जीवाश्च प्राणधरणालक्षणास्तद्विपरीताश्चाजीवाधर्माधर्माकाशादयः, तत्र तस्य भिक्षोरहिंसाप्रसिद्धये जीवान् विभागेन दर्शयितुमाह-जीवा अप्युपयोगलक्षणा द्विधा, तद्यथा त्रस्यन्तीति त्रसा द्वीन्द्रिययादयः तथा तिष्ठन्तीति स्थावराः - :- पृथिवीकायादयः । तेऽपि सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन बहुधा द्रष्टव्याः, एतेषु चोपरि बहुधा व्यापारः प्रवर्तते । साम्प्रतं तदुपमर्दकव्यापारकुर्तन् दर्शयन्नाह
मू. (६४६) इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा ते सयं समारभंति अन्त्रेणवि समारंभावेति अन्नंपि समारभतं समनुजाणंति ।
इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हंति अन्नेणवि परिगिण्हावेति अन्नंपि परिगिण्हंतं समणुजाणंति ॥
इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, अहं खलु अनारंभे अपरिग्गहे, जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणावि सारंभा सपरिग्गहा, एतेसिं चेव निस्साए बंभचेरवासं बसिस्सामो, कस्स णं तं हेउं ?, जहा पुव्वं तहा अवरं जहा अवरं तहा पुव्वं, अंजू एते अनुवरया अनुवट्ठिया पुनरवि तारिसगा चेव ।
जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, दुहतो पावाइं कुव्वंति इति संखाए दोहिवि अंतेहिं अदिस्समाणो इति भिक्खू रीएज्जा ।
से बेमि पाईणं वा ६ जाव एवं से परिण्णायकम्मे, एवं से ववेयकम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥
वृ. ‘इह' अस्मिन् संसारे खलुर्वाक्यालङ्कारे गृहम् अगारं तत्र तिष्ठन्तीति गृहस्थाः, ते च सहारम्भेण-जीवोपमर्दकारिणा वर्तन्त इति सारम्भाः, तथा सह परिग्रहेण द्विपदचतुष्पदधनधान्यादिना वर्तन्त इति सपरिग्रहाः, न केवलं त एव अन्येऽपि 'सन्ति' विद्यन्ते एके केचन 'श्रमणाः' शाक्यादयः, ते च पचनपाचनाद्यनुमतेः सारम्भा दास्यादिपरिग्रहाच्च सपरिग्रहाः, तथा
221
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org