________________
३२२
सूत्रकृताङ्ग सूत्रम् २/9/-/६४६ ब्राह्मणाश्चैवंविधा एव, एतेषांच सारम्भकत्वं स्पष्टतरंसूत्रेणैवदर्शयति-यइमे प्राग्वावर्णितानसाः स्थावराश्च प्राणिनस्तान स्वयमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दकं व्यापार स्वत एव कुर्वन्तीत्यर्थः, तथा अन्यांश्च समारम्भयन्ति समारम्भं कुर्वतमेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दकं व्यापारस्वत एव कुर्वन्तीत्यर्थः, तथाअन्यांश्च समारम्भयन्तिसमारम्भकुर्वतश्चान्यान् समनुजानन्ति।
तदेवं प्राणातिपातं प्रदर्श्य भोगाङ्गभूतं परिग्रहं दर्शयितुमाह-'इह खलु' इत्यादि, इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाश्च, तेच सारम्भपरिग्रहत्वात् किं कुर्वन्तीति दर्शयति-यइमेप्रत्यक्षाःकामप्रधाना भोगाःकामभोगाःकाम्यन्त इतिकामाः-स्त्रीगात्रपरिष्वङ्गादयो भुज्यन्त इति भोगाः-स्रक्चन्दनवादित्रादयः, त एते सचित्ताः-सचेतना अचेतना भवेयुः, तदुपादानभूता वाऽर्था, तांश्च सचित्तानचित्तान्वाऽर्थान् 'ते' कामभोगार्थिनो गृहस्थादयः स्वत एव परिगृह्णन्ति अन्येन च परिग्राहयन्ति अपरं च परिगृण्हन्तं समनुजानत इति॥
साम्प्रतमुपसंजिघृक्षुराह-'इह खलु' इत्यादि, इह-अस्मिन् जगति ‘सन्ति' विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भा-सपरिग्रहा इत्येवं ज्ञात्वा स भिक्षुरेवमवधारयेद्अहमेवात्र स्वल्वनारम्भोऽपरिग्रहश्च, ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतत्रिश्रयातदाश्रयेण ब्रह्मचर्य-श्रामण्यमाचरिष्यामोऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते साम्भपरिग्रहगृहस्थनिश्रया प्रव्रज्यां करिष्याम इत्यर्थः । ननु च यदि तत्रिश्रया पुनरपिविहर्तव्यं किमर्थते त्यज्यन्त इतिजाताशङ्गः पृच्छति-'कस्य हेतोः केन कारणेन तदेतद्गृहस्यश्रमणब्राह्मणत्यजनमभिहितमिति,आचार्योऽपिविदिताभिप्राय उत्तरंददाति, यथा'पूर्वम्' आदौ सारम्भपरिग्रहत्वं तेषांतथा पश्चादपि' सर्वकालमपिगृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाश्च केचन यथा पूर्व गृहस्थभावेसारम्भाः सपरिग्रहास्तथा 'अपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, श्रमणाश्च केचन तथा 'पूर्व गृहस्थभावे सारम्भा- सपरिग्रहस्तथा
जपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारित्वप्रतिपादनार्थमाह-यथा अपरम्' अपरस्मिनप्रव्रज्याप्रतिपत्तिकाले तथा पूर्वमपि गृहस्थभावादावपीति, यदिवा-कस्य हेतोस्तद्गृहस्थाद्याश्रयणं क्रियते यतिनेत्याह-तथा पूर्व प्रव्रज्यारम्भकाले सर्वमेव भिक्षादिकं गृहस्थायत्तं तथा पश्चादपि, अतः कथं नु नामानवद्यावृत्तिर्भविष्यतीत्यतः . साधुभिरनारम्भैः सारम्भाश्रयणं विधेयं । . यथाचैतेगृहस्थादयः सारम्भाः सपरिग्रहाश्च तथा प्रत्यक्षेणैवोपलभ्यन्त इति दयितुमाह'अंजू इतिव्यक्तमेतदेते गृहस्थादयो यदिवा-'अञ्जू इति प्रगुणेन न्यायेन स्वरसप्रवृत्त्या सावद्यानुष्ठानेभ्योऽनुपरताः परिग्रहारम्भाच सत्संयमानुष्ठानेन चानुपस्थिताः-सम्यगुत्थानमकृतवन्ता येऽपि कथञ्चिद्धर्मकरणायोस्थितास्तेऽप्युद्दिष्टभोजित्वात्मावद्यानुष्ठानपरत्वाच गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपिताशा एव-गृहस्थकल्पाएवेति ।।साम्प्रतमुपसंहरति-यइमे-गृहस्थादयस्ते 'द्विघाऽपि सारम्भसपरिग्रहत्वाभ्यामुभाभ्यामपि पापान्युपाददतेयदिवा रागद्वेषाभ्यामुभाभ्यामपि यदिवा गृहस्थप्रव्रज्यापर्यायाभ्यामुभाभ्यांपापानि कुर्वत इत्येवं 'संख्या' परिज्ञाय द्वयोरप्यन्तयोः' आरम्भपरिग्रहयो रागद्वेषयोर्वा अध्श्यमानः' अनुपलभ्यमानोयदिवारागद्वेषयोविन्ती-अभावी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org