________________
श्रुतस्कन्धः - २, अध्ययनं - 9,
तयोरादिश्यमानो-रागद्वेषाभाववृत्तित्वेनापदिश्यमानः सन्नित्येवंभूतो 'भिक्षु' भिक्षणसीलोऽनवद्याहारभोजी सत्संयमानुष्ठाने 'रीयेत्' प्रवर्तेत, एतदुक्तं भवति य इमे ज्ञातिसंयोगा यश्चायं धनधान्यादिकः परिग्रहो यच्चेदं हस्तपादाद्यवयवयुक्तं शरीरकं यच तदायुर्बलवर्णादिकं तत्सर्वमशाश्वतमनित्यं स्वप्नेन्द्रजालस शमसारं, गृहस्थश्रमणब्राह्मणाश्च सारम्भाः सपरिग्रहाश्च, एतत्सर्वं परिज्ञाय सत्संयमानुष्ठाने भिक्षू रीयेतेति स्थितम् ।
स पुनरप्यहमधिकृतमेवार्थं विशेषिततरं सोपपत्तिकं ब्रवीमीति-तत्र प्रज्ञापकापेक्षया प्राच्यादिकायादिशोऽन्यतरस्याः समायातः स भिक्षुर्द्वयोरप्यन्तयोरध्श्यमानतया सत्संयमेरीयमाणः सन् 'एवम्' अनन्तरोक्तेन प्रकारेण ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय च परिज्ञातकर्मा भवति । पुनरपि 'एव' मिति परिज्ञातकर्मत्वाद्यपेतकर्मा भवति - अपूर्वस्याबन्धको भवतीत्यर्थः, पुनरेवमित्यबन्धकतया योगनिरोधोपायतः पूर्वोपचितस्य कर्मणो विशेषेणान्तकारको भवतीति एतच्च तीर्थकरगणधरादिभिर्ज्ञातज्ञेयैराख्यातमिति ॥ कथं पुनः प्राणातिपातविरतिव्रतादिव्यवस्थितस्य कर्मापगमो भवतीत्युक्तं ?, यतस्तयप्रवृत्तस्यात्मौपम्येन प्राणिनां पीडोत्पद्यते, तया च कर्मबन्ध इत्येवं सर्वं मनस्याधायाह-
३२३
मू. (६४७) तत्थ खलु भगवता छज्जीवनिकाय हेऊ पन्नत्ता, तंजहा- पुढवीकाए जाव तसकाए, से जहानामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउट्टिजमाणस्स वा हम्ममाणस्स वा तज्जिज्जमाणस्स वा ताडिजमाणस्स वा परियाविजमाणस्स वा किलामिजमाणस्स वा उद्दविज्जमाणस्स जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि, इच्छेवं जाण सच्चे जीवा सव्वे भूता सच्चे पाणा सव्वे सत्ता दंडेण वा जाव कवालेण वा आउट्टिजमाणा वा हम्ममाणा वा तजिजमाणा वा ताडिजमाणा वा परियाविजमाणा वा किलामिजमाणा वा उद्दविजमाणा वा जाव लोमुक्खणणमायभवि हिंसाकारणं दुक्खं भयं पडिसंवेदेति, एवं नञ्च सव्वे पाणा जाव सत्ता व हंतव्वा न अज्जावेयव्वा न परिघेतव्वा न परितावेयव्वा न उद्दवेयव्या ।
से बेमि जेय अतीता जेय पडुप्पन्ना जेय आगमिस्सा अरिहंता भगवंता सव्वे ते एवमाइक्खंति एवं भाति एवं पन्नवेति एवं परूवेति-सव्वे पाणा जाव सत्ता न हंतव्वा न अज्जावेयव्वा न परिघेतव्वा न परितावेयव्वा न उद्दवेयव्वा एस धम्मे धुवे नीतिए सासए समित्र लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणातिवायातो जाव विरते परिग्गहातो नो दंतपक्खालणेणं दंते पक्खालेजा नो अंजणं नो वमणं नो धूवणे नो तं परिआविएज्जा ।
से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिनिव्वुडे नो आसंसं पुरतो करेज्ज इमेण मे दिद्वेण वा सुएण वा मएण वा विनाएण वा इमेण वा सुधरियतवनियम बंभचेरवासेण इमेण वा जायामायावुत्तिएणं धम्भेणं इओ चुए पेचा देवे सिया कामभोगाण बसवती सिद्धे वा अदुक्खमसुभे एत्थवि सिया एत्यवि नो सिया ।। से भिक्खु सद्देहिं अमुच्छिए रूवेहिं अमुच्छिए गंधेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं अमुछिए विरए कोहाओ माणाओ मायाओ लोभाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुन्नाओ परपरिवायाओ अरइरईओ मायामोसाओ पिच्छादंसणसल्लाओ इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org