________________
श्रुतस्कन्धः - २, अध्ययनं - 9,
३१९
प्रथमं प्रथमान्तानि पुनर्द्वितीयान्तानि साम्प्रतं पञ्चम्यन्तानीति । न घायमर्थस्तेन दुःखितेन 'एतमेवे 'ति यथा प्रार्थितस्तथैव लब्धपूर्वो भवति, इदमुक्तं भवति न हि ते क्षेत्रादयः परिग्रहविशेषा नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीति । एतदेव लेशतो दर्शयति- 'इह' अस्मिन् खलु वाक्यालङ्कारे ते कामभोगा अत्यन्तमभ्यस्ता न 'तस्य' दुःखितस्य त्राणाय शरणाय वा भवन्ति, सुलालितानामपि कामभोगानां पर्यवसानं दर्शयितु- माह- 'पुरिसो वा' इत्यादि, पुरिशयनात्पुरुषः- प्राणी 'एकदा ' व्याध्युत्पत्तिकाले जराजीर्णकाले वाऽन्यस्मिन्वा राजाद्युपद्रवे 'तान्' कामभोगान् परित्यजति स वा पुरुषो द्रव्याद्यभावे तैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते, सचैवमवधारयति-'अन्ये' मत्तो भिन्नाः खल्वमी कामभोगाः, तेभ्यश्चान्योऽहमस्मि । तदेवं व्यवस्थिते “किमित वयं पुनरेतेष्वनित्येषु परभूतेष्वन्येषु कामभोगेषु मूच्छ कुर्म" इत्येवं केचन महापुरुषाः 'परिसंख्याय' सम्यग् ज्ञात्वा कामभोगान् वयं 'विप्रजहिष्यामः' त्यक्ष्याम् इत्येवमध्यवसायिनो भवन्ति ।
पुनरपरं वैराग्योत्पत्तिकारणमाह- 'से मेहावी' स 'मेघावी' सश्रुतिकः एतज्जानीयात्, तद्यथायदेतत्क्षेत्रवास्तुहिरण्यसुवर्णशब्दादिविषयादिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतद्बाह्यतरं वर्तते, इदमेव चान्यद्वक्ष्यमाणम् 'उपनीततरम्' आसन्नतरं वर्तते, तद्यथा - माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते खलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेषां स्नानभोजनादिनोपकरिष्यामीत्येवं स मेघावी पूर्वमेवात्मनैवं समभिजानीयादित्यादि, एवं पर्यालोचयत्कल्पितवानिति वा, एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह-'इह खलु' इत्यादि 'इह' अस्मिन भवे मम वर्तमानस्यानिष्टादिविशेषणविशिष्टो दुःखातङ्कः समुत्पद्येत ततोऽसौ तद्दुःखदुःखितो ज्ञातीनेवमभ्यर्थयेत्, तद्यथा-इमं ममान्यतरं दुःखातङ्कमुत्पत्रं परिगृण्हीत यूयमहमनोत्पन्न दुःखातङ्केन पीडयिष्यामीत्यतोऽमुष्मान्मां परिमोचयत यूयमिति, न चैतत्तेन दुःखितेन लब्धपूर्वं भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः, नाप्यसौ तेषां दुःखमोचनायालमिति दर्शयितुमाह- 'तेसिं वावी' त्यादि, सर्वं प्राग्वद्योजनीयं यावदेवमेव नो लब्धपूर्वं भवतीति, किमित्येवं नोपलब्धपूर्वं भवतीत्याह
-
"
न
'अन्नरस दुक्ख' मित्यादि सर्वस्यैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाद्यदुःखमुत्पद्यते तदन्यस्य संबन्धि दुःखमन्यो- मातापित्रादिकः कोऽपि न प्रत्यापिबति, तस्मात्पुत्रादेर्दुखेनासह्येनात्यन्तपीडिताः स्वजना नापि तद्दुःखमात्मनि कर्तुमलं किमित्येवमाशङ्कयाह-'अन्नेण कड' मित्यादि, 'अन्येन' जन्तुना कषायवशगेन इन्द्रियानुकूलतया भोगाऽभिलाषिणाऽज्ञानावृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवेदयति-नानुभवति, तदनुभवने ह्यकृतागमकृतनाशी स्यातां, न चेमौ युक्तिसंगती, अतो यद्येन कृतं तत्सर्वं स एवानुभवति, तथा चोक्तम्
॥१॥
“परकृतकर्मणि यस्मान्न क्रामति संक्रमो विभागो वा । तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम् ॥
यस्मात्स्वकृतकर्मफलेश्वरा जन्तवस्तस्मादेतद्भवतीत्याह- 'पत्तेय 'मित्यादि, एकमेकं प्रति प्रत्येकं स्वोऽप्यसुमान् जायते, तथा क्षीणे चायुषि प्रत्येकमेव म्रियते, उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org