________________
१४४
सूत्रकृताङ्ग सूत्रम् १/५/१/३१०
भू. (३१०)
आसूरियं नाम महाभितावं, अंधंतमं दुप्पतरं महंतं । उड्ढं अहेअं तिरियं दिसासु, समाहिओ जत्थऽगणी झियाई ॥
वृ. न विद्यते सूर्यो यस्मिन् सः असूर्यो- नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोऽसूर्य इति व्यपदिश्यते, तमेवम्भूतं महाभितापम् अन्धतमसं 'दुष्प्रतरं' दुरुत्तर 'महान्तं' विशालं नरकं महापापोदयाद्व्रजन्ति, तत्र च नरके ऊर्ध्वमधस्तिर्यक् सर्वतः 'समाहितः' सम्यगाहितो व्यवस्थापितोऽग्निर्ज्वलतीति, पठ्यते च 'मूसिओजत्थऽगणी झियाई' यत्र नरके सम्यगूर्ध्वं श्रितः समुच्छ्रितोऽग्निः प्रज्वलति तं तथाभूतं नरकं वराका व्रजन्ति इति ॥
मू. (३११) जंसी गुहाए जलणेऽतिउट्टे, अविजाणओ इज्झि लुत्तपन्नो । सया य कलुणं पुन धम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं ।।
वृ. किञ्चान्यत्- ' यस्मिन्' नरकेऽतिगतोऽसुमान् 'गुहाया' मित्युष्ट्रिकाकृती नरके प्रवेशितो ‘ज्वलने' अग्नौ ‘अतिवृत्तः’ अतिगतो वेदनाभिभूतत्वात्स्वकृतं दुश्चरितमजानन् 'लुप्ठयज्ञः' अपगतावधिविवेको दन्दह्यते, तथा 'सदा' सर्वकालं पुनः करुणप्रायं कृत्स्नं वा 'धर्मस्तानम्' उष्णस्थानं तापस्थानमित्यर्थ, ‘गाढं’तिअत्यर्थम् 'उपनीतं' ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तत्ते व्रजन्ति, पुनरपि तदेव विशिनष्टि- अतिदुःखरूपो धर्म-स्वभावो यस्मिन्निति इदमुक्तं भवतिअक्षिनिमेषमात्रमपि कालं न तत्र दुःखस्य विश्राम इति, तदुक्तम्
॥ १ ॥
“अच्छिनिमीलणमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । निरए नेरइयाणं अहोनिसं पञ्चमाणाणं ॥
मू. (३१२) चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितविंति बालं । ते तत्थ चिट्टंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ॥
वृ. चतुसृष्वपि दिक्षु चतुरोऽग्नीन् 'समारभ्य' प्रज्वाल्य 'यत्र' यस्मिन्नरकावासे 'क्रूरकर्माणों' नरकपाला आभिमुख्येनात्यर्थं तापयन्ति भटित्रवत्पचन्ति 'बालम्' अज्ञं नारकं पूर्वकृतदुश्चरितं ते तु नारकजीवा एवम् 'अभितप्यमानाः' कदर्थ्यमानाः स्वकर्मनिगडितास्तत्रैव प्रभूतं कालं महादुःखाकुले नरके तिष्ठन्ति, दृष्टान्तमाह-यथा जीवन्तो 'मत्स्या' मीना 'उपज्योति' अग्नेः समीपे प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति एवं नारका अपि मत्स्यानां तापासहिष्णुत्वादग्नावत्यन्तं दुःखमुत्पद्यत इत्यतस्तद्ग्रहणमिति ॥
भू. (३१३) संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा । हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ||
वृ. किञ्चान्यत्-सम् - एकीभावेन तक्षणं सन्तक्षणं, नामशब्दः सम्भावनाया, यदेतत्संतक्षणं तत्सर्वेषां प्राणिनां 'महाभितापं' महादुःखोत्पादकमित्येवं सम्भाव्यते, यद्येवं ततः किमित्याह-ते ‘नारका' नरकपाला ‘यत्र' नरकवासे स्वभवनादागताः 'असाधुकर्माणः' क्रूरकर्माणो निरनुकम्पाः 'कुठारहस्ताः' परशुपाणयस्तान्नारकानत्राणान् हस्तैः पादेश्च 'बद्धवा' संयम्य 'फलकमिव' काष्ठशकलमिव 'तक्ष्णुवन्ति' तनूकुर्वन्ति छिन्दन्तीत्यर्थः । अपिच
मू. (३१४) रुहिरे पुणो वच्चसमुस्सिअंगे, भिन्नुत्तमंगे वरिवत्तयंता । पर्यंत णं नेरइए फुरंते, सजीवमच्छे व अयोकवल्ले |
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org