________________
श्रुतस्कन्धः - १, अध्ययनं ४, उद्देशकः - १
-
१२७
काम:
:-तदभिलाषी मा मे लोके अवर्णवादः स्यादित्यकार्यं प्रच्छादयति विषण्णः-असंयमस्तमेषितं शीलमस्येति विषण्णैषी । भू. (२७६)
संलोकनिजमनगारं, आयगयं निमंतणेणाहंसु । वत्थं च ताइ ! पायं वा, अन्नं पाणगं पडिग्गाहे ।।
वृ. किञ्चान्यत्-संलोकनीयं संदर्शनीयमाकृतिमन्तं कञ्चन 'अनगारं' साधुमात्मनि गतमात्मगतम् आत्मज्ञमित्यर्थः, तदेवम्भूतं काश्चन स्वैरिण्यो 'निमन्त्रणेन' निमन्त्रणपुरःसरम् ‘आहुः' उक्तवत्यः, तद्यथा-हे त्रायिन् ! साधो वस्त्रं पात्रमन्यद्वा पानादिकं येन केनचिद्भवतः प्रयोजनं तदहं भवते सर्वं ददामीति मद्गृहमागत्य प्रतिगृहाण त्वमिति ॥ नीवारमेवं बुज्झेज्जा, नो इच्छे अगारमागंतुं ।
पू. (२७७)
बद्धे विसयपासेहिं, मोहमावज्जइ पुणो मंदे ।। -त्तिबेमि ।
वृ. उपसंहारार्थमाह-एतद्योषितां वस्त्रादिकमामन्त्रणं नीवारकल्पं 'बुध्येत' जानीयात्, यथाहि नीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिर्वशमानीयते, एवमसावपितेनामन्त्रणेन वशमानीयते, अतस्तन्त्रेच्छेद 'अगारं गृहं गन्तुं यदिवा-गृहमेवावर्तो गृहभ्रमस्तं 'नेच्छेत्' नाभिलषेत्, किमिति ? यतो 'बद्धो' वशीकृतो विषया एव शब्दादयः 'पाशा' रज्जूबन्धनानि तैर्बद्धः-परवशीकृतः स्नेहपाशानपत्रोटयितुमसमर्थ सन् 'मोहं' चित्तव्याकुलत्वमागच्छति किंकर्तव्यतामूढो भवति पौनःपुन्येन 'मन्दः' अज्ञो जड इति । इति परिसमाप्तौ । ब्रवीमीति पूर्ववत् ।
अध्ययनं ४ उद्देशकः-१ समाप्तः
-: अध्ययनं-४ उद्देशकः - २ :
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तरोद्देशके स्त्रीसंस्तवाञ्चारित्रस्खलनमुक्तं, स्खलितशीलस्य या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
मू. (२७८)
ओए सया न रज्जेज्जा, भोगकामी पुणो विरज्जेज्जा ।
भोगे समणाण सुणेह, जह भुंजंति भिक्खुणो एगे ॥
वृ. अस्य चानन्तरपरम्परसूत्रसम्बन्धो वक्तव्यः, स चायं सम्बन्धो-विषयपाशैर्मोहमागच्छति यतोऽत 'ओज' एको रागद्वेषवियुतः स्त्रीषु रागं न कुर्यात्, परम्परसूत्रसम्बन्धस्तु संलोकनीयमनगारं दृष्ट्वा च यदि काचिद्योषित् साधुमशनादिना नीवारकल्पेन प्रतारयेत् तत्रौजः सन्न रज्येतेति, तत्रौजो द्रव्यतः परमाणुः भावतस्तु रागद्वेषवियुतः, स्त्रीषु रागादिहैव वक्ष्यमाणनीत्या नानाविधा विडम्बना भवन्ति तत्कृतश्च कर्मबन्धः तद्विपाकाच्चामुत्र नरकादौ तीव्रा वेदना भवन्ति यतोऽत एतन्मत्वा भावौजः सन् 'सदा' सर्वकालं तास्वनर्थखनिषुस्त्रीषु न रज्येत, तथा यद्यपि मोहोदयात् भोगाभिलाषी भवेत् तथाप्यैहिकामुष्मिकापायान् परिगणय्य पुनस्ताभ्यो विरज्येत, एतदुक्तं भवति
कर्मोदयात्प्रवृत्तमपि चित्तं हेयोपादेयपर्यालोचनया ज्ञानाङ्कुशेन निवर्तयेदिति, तथा श्राम्यन्ति तपसा खिद्यन्तीति श्रमणास्तेषी एषामपि भोगा इत्येतच्छृणुत यूयं एतदुक्तं भवतिगृहस्थानामपि भोगा विडम्बनाप्राया यतीनां तु भोगा इत्येतदेव विडम्बनाप्रायं, किं पुनस्तत्कृतावस्थाः, तथा चोक्तम्- "मुण्डं शिर" इत्यादि पूर्ववत्, तथा यथा च भोगान् 'एके' अपुष्टधर्माणो 'भिक्षवो'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org