________________
१२८
सूत्रकृताङ्ग सूत्रम् १/४/२/२७८
यतयो विडम्बनाप्रायान् भुञ्जते ततोद्देशकसूत्रेणैव वक्ष्यमाणेनोत्तरत्र महता प्रबन्धेन दर्शयिष्यति,
अन्यैरप्युक्तम् ।
॥१॥
“कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्ण पिठरककपालार्दि तगलः । व्रणैः पूयक्लिन्नैः कुमिकुलशतैराविलतनुः, शुनीमन्चेति श्वा हतमपि च हन्त्येव मदनः । इत्यादि, अह तं तु भेदभावनं, मुच्छितं भिक्खुं काममतिवद्धं । पलिभिंदिया णं तो पच्छा, पादुद्धट्टु मुद्धि पहणंति ॥
पू. (२७९)
वृ. भोगिनां विडम्बनां दर्शयितुमाह- 'अथे' त्यानन्तर्यार्थः तुशब्दो विशेषणार्थः, स्त्रीसंस्तवादनन्तरं ‘भिक्षु' साधुं 'भेदं' शीलभेदं चारित्र स्खलनम् 'आपन्नं' प्राप्तं सन्तं स्त्रीषु 'मूर्च्छितं' गृद्धमध्युपपन्नं, तमेव विशिनष्टि कामेषु इच्छामदनरूपेषु मतेः-बुद्धेर्मनसो वा वर्त्तोवर्तनं प्रवृत्तिर्यस्यासौ काममतिवर्तः- कामाभिलाषुक इत्यर्थः, तमेवम्भूतं 'परिमिद्य' मदभ्युपगतः श्वेत कृष्णप्रतिपत्ता मद्वशक इत्येवं परिज्ञाय यदिवा-परिभिद्य परिसार्यात्मकृतं ततकृतं चोच्चार्येति
तद्यथा मया तव लुञ्चितशिरसो जल्लमलाविलतया दुर्गन्धस्य जुगुप्सनीयकक्षावक्षोबस्तिस्थानस्य कुलशीलमर्यादालजाधर्मादीन् परित्यज्यात्मा दत्तः त्वं पुनरकिञ्चित्कर जल्लमलाविलतया दुर्गन्धस्य जुगुप्सनीयकक्षावक्षोबस्तिस्थानस्य कुलशीलमर्यादालञ्जाधर्मादीन् परित्यज्यात्मा दत्तः त्वं पुनरकिञ्चित्कर इत्यादि भणित्वा, प्रकुपितायाः तस्या असौ विषयमूर्च्छितस्तत्प्रत्यायनार्थः पादयोर्निपतति, तदुक्तम्
॥ १ ॥ "व्याभिन केसरबृहच्छिरसश्च सिंहा, नागाश्च दानमदराजिकृशैः कपोलैः । मेघाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति ॥
ततो विषयेष्वेकान्तेन मूर्च्छित इति परिज्ञानात् पश्चात् 'पादं' निजवामचरण् 'उद्धृत्य' उत्क्षिप्य 'मूर्ध्नि ' शिरसि 'प्रघ्नन्ति' ताडयन्ति, एवं विडम्बनां प्रापयन्तीति ॥ अन्यच्च । पू. (२८०) जइ केसिआ णं मए भिक्खू, नो विहरे सह नमित्थीए ।
केसाणविह लुंचिस्सं, नन्नत्थ मए चरिज्जासि ।।
वृ. केशा विद्यन्ते यस्याः सा केशिका णमिति वाक्यालङ्कारे, हे भिक्षो! यदि मया 'स्त्रिया' भार्यया केशवत्या सह नो विहरेस्त्वं, सकेशया स्त्रिया भोगान् भुञ्जानो व्रीडां यदि वहसि ततः केशानप्यहं त्वत्सङ्गमाकाङ्क्षिणी 'लुञ्चिष्यामि' अपनेष्यामि, आस्तां तावदलङ्कारादिकमित्यपिशब्दार्थः, इदमुक्तं भवति-मया रहितेन भवता क्षणमपि न स्थातव्यम्, एतावदेहावं भवन्तं प्रार्थयामि, अहमपि यद्भवानादिशति तत्सर्वं विधास्य इति ।
पू. (२८१)
अहणं से होई उवलद्धो, तो पेसंति तहाभूएहिं ।
अलाउच्छेदं पेहेहि, वग्गुफलाई आहराहित्ति ।।
वृ. इत्येवमतिपेशलैर्विश्रम्भजननैरापातभद्रकैरालापैर्विश्रम्भयित्वा यत्कुर्वन्ति तद्दर्शयितुमाह- 'अथे' त्यानन्तर्यार्थः, णमिति वाक्यालङ्कारे, विश्रम्भालापानन्तरं यदाऽसी साधुर्मदनुरक्त इत्येवम् 'उपलब्धी' भवति - आकारैरिङ्गतैश्चेष्टया वा मद्वशग इत्येवं परिज्ञातो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International