SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं ४, उद्देशक :- २ - भवति ताभि कपटनाटक- नायिकाभिः स्त्रीभिः, ततः तदभिप्रायपरिज्ञानादुत्तरकालं 'तथाभूतैः ' कर्मकरव्यापारैरपशदै: 'प्रेषयन्ति' नियोजयन्ति यदिवा तथाभूतैरिति लिङ्गस्थयोग्यैर्व्यापारैः प्रेषयन्ति तानेव दर्शयितुमाह 'अलाउ'त्ति अलाबु तुम्बं छिद्यते येन तदलाबुच्छेदं पिप्पलकादि शस्त्रं 'पेहाहि 'त्ति प्रेक्षस्व निरूपय लभस्वेति, येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति, तथा ' वल्गूनि ' शोभनानि 'फलानि' नालिकेरादीनि अलाबुकानी वा त्वम् 'आहर' आनयेति, यदिवा वाक्फलाने च धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया वा वाचो यानि फलानि - वादिलाभरूपाणि तान्याहरेति अपिचमू. (२८२) १२९ दारूणि सागपागाए, पज्जोओ वा भविस्सती राओ । पाताणि य मे रयावेहि, एहि ता मे पिट्ठओमद्दे ॥ वृ. तथा 'दारूणि ' काष्ठानि शाकं टक्कवस्तुलादिकं पत्रशाकं तत्पाकार्थं, क्वचिद् अन्नपाकायेति पाठः, तत्रान्नम् - ओदनादिकमिति, 'रात्रौ' रजन्या प्रद्योतो वा भविष्यतीतिकृत्वा, अतो अटवीत स्तमाहरेति, तथा 'पात्राणि' पतद्ग्रहादीनि 'रञ्जय' लेपय, येन सुखेनैव भिक्षाटनमहं करोमि, यदिवा-पादावलक्तकादिना रञ्जयेति, तथा परित्यज्यापरं कर्म तावद् 'एहि' आगच्छ 'मे' मम पृष्ठिम् उत्- प्राबल्येन मर्दय बाधते ममाङ्गमुपविष्टाया अतः संबाधय, पुनरपरं कार्यशेषं करिष्यसीति ॥ मू. (२८३) वत्थाणि य मे पडिलेहेहि, अन्नं पाणं च आहाराहित्ति । गंधं च रओहरणं च, कासंवगं च मे समनुजाणाहि || बृ. किञ्च - वस्त्राणि च ' अम्बराणि 'मे' मम जीर्णानि वर्तन्तेऽतः 'प्रत्युपेक्षस्व' अन्यानि निरूपय, यदिवा मलिनानि रजकस्य समर्पय, मदुपधिं वा मूषिकादिभयात्प्रत्युपेक्षस्वेति, तथा अन्नपानादिकम् 'आहर' आनयेति, तथा 'गन्धं' कोष्ठपुटादिकं ग्रन्थं वा हिरण्यं तथा शोभनं रजोहरणं तथा लोचं कारयितुमहशक्तेत्यतः 'काश्यपं' नापितं मच्छिरोमुण्डनाय श्रमणानुजानीहि येनाहं बृहत्केशान- पनयामीति किञ्चान्यत् पू. (२८४) अदु अंजणि अलंकर, कुक्कययं मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥ वृ. अथशब्दोऽधिकारान्तरप्रदर्शनार्थ पूर्वं लिङ्गस्थोपकरणान्यधिकृत्याभिहितम्, अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा- 'अंजणिमिति अञ्जणिकां कजलाधारभूतां नलिकां मम प्रवच्छ स्वेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा 'कुक्कययं' ति खुखुणकं ‘मे’ मम प्रयच्छ, येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोघ्रं च लोकुसुमं च, तथा 'वेणुपलासियं' ति वंशात्मिका श्लक्ष्णत्वक् काष्ठिका, सा दन्तैर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणावद्वाद्यते, तथैौषधगुटिकां तथाभूतामानय येनाहमविनष्टयौवना भवामीति पू. (२८५) : कुटुं तगरं च अगरुं, संपिट्टं सम्मं उसिरेणं । तेल्लं मुहभिजाए, वेणुफलाई सन्निधानाए । 29 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy