________________
१२६
सूत्रकृताङ्ग सूत्रम् १/४/१/२७१
वृ. 'युवतिः' अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं ब्रूयात्, तद्यथा- विरता अहं गृहपाशात् न ममानुकूलो भर्ता मह्यं वाऽसौ न रोचते परित्यक्ता वाऽहं तेनेत्येतत् 'चरिष्यामि' करिष्याम्यहं 'रूक्ष' मिति संयमं, मौनमिति वा क्वचित्पाठः तत्र मुनेरयं मौनः संयमस्तमाचरिष्यामि, धर्ममाचक्ष्व 'णे' त्ति अस्माकं हे भयत्रातः !, यथाऽहमेवं दुःखानां भाजनं न भवामि तथा धर्ममावेदयेति ।
मू. (२७२) अदु साविया पवाएणं, अहमंसि साहम्मिणी य समाणाणं । जतुकुंभे जहा उवज्जोई, संवासे वदू विसीएज्जा |
वृ. किञ्चान्यत्-अथवाऽनेन 'प्रवादेन' व्याजेन साध्वन्तिकं योषिदुपसर्पेत् यथाऽहं श्राविकेतिकृत्वा युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपञ्चेन नेदीयसीभूत्वा कूलवालुकमिव साधुं धर्मार्द्धशयति, एतदुक्तं भवति - योषित्सान्निध्यं ब्रह्मचारिणां महतेऽनर्थाय तथा चोक्तम्॥ १ ॥ " तज्ज्ञानं तच्च विज्ञानं तत्तपः स च संयमः । सर्वमेकपदे भ्रष्टं, सर्वता किमपि स्त्रियः ।।
अस्मिन्नेवार्थे दृष्टान्तमाह-यथा जातुषः कुम्भो 'ज्योतिषः' अग्नेः समीपे व्यवस्थित उपज्योतिर्वर्ती 'वित्तीयते' द्रवति, एवं योषितां 'संवासे' सान्निध्ये विद्वानपि आस्तां तावदितरो योऽपि विदितवेद्योऽसावपि धर्मानुष्ठानं प्रति 'विषीदेत' शीतलविहारी भवेदिति । एवं तावत्स्त्री सान्निध्ये दोषान् प्रदर्श्य तत्संस्पर्शजं दोषं दर्शयितुमाहमू. (२७३) जतुकुंभे जोइउवगूढे, आसुऽभितत्ते नासमुवयाइ । एवित्थियाहिं अनगारा, संवासेण नासमुवयंति ॥
वृ. यथा जातुषः कुम्भो 'ज्योतिषा' अग्निनोपगूढः समालिङ्गितोऽभितप्तोऽग्निनाभिमुख्येन् सन्तापितः क्षिप्रं 'नाशमुपयाति' द्रवीभूय विनशयति, एवंस्त्रीभिः सार्धं 'संवसनेन' परिभोगेनानगारा नाशमुपयान्ति, सर्वथा जातुषकुम्भवत् व्रतकाठिन्यं परित्यज्य संयमशरीराद् भ्रश्यन्ति ॥ कुव्वंति पावगं कम्मं, पुट्ठा वेगेवमाहिंसु ।
पू. (२७४)
नोऽहं करेमि पावंति, अंकेसाइणी ममेसत्ति ।।
घृ. अपिच तासु संसाराभिष्वङ्गिणीष्वभिषक्ता अवधीरितैहिकामुष्मिकापायाः 'पापं कर्म' मैथुनासेवनादिकं 'कुर्वन्ति' विदधति, परिभ्रष्टाः सदनुष्ठानाद् 'एके' केचनोत्कटमोह आचार्यादिना चोद्यमाना 'एवमाहुः' वक्ष्यमाणमुक्तवन्तः, तद्यथा नाहमेवम्भूतकुलप्रसूतः एतदकार्यं पापोपादानभूतं करिष्यामि, ममैषा दुहितृकल्पा पूर्वम् अङ्केशायिनी आसीत्, तदेषा पूर्वाभ्यासेनैव मय्येवमाचरति, न पुनरहं विदितसंसारस्वभावः प्राणात्ययेऽपि व्रतभङ्गं विधास्य इति । किञ्च - बालस्स मंदयं बीयं, जं च कडं अवजाणई भुजो ।
मू. (२७५)
दुगुणं करेइ से पावं, पूयणकामो विसन्नेसी ॥
वृ. 'बालस्य' अज्ञस्य रागद्वेषाकुलितस्यापरमाथध्श एतद्दितीयं 'मान्यं' अज्ञत्वम्, एकं तावदकार्यकरणेन चतुर्थव्रतभङ्गो द्वितीयं तदपलपनेन मृषावादः, तदेव दर्शयति-यत्कृतमसदाचरणं 'भूय:' पुनरपरेण चोद्यमानः 'अपजानीते' अपलपति- नैतन्मया कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति, किमर्थमपलपतीत्याह-पूजनं-सत्कारपुरस्कारस्तत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org