________________
१२५
श्रुतस्कन्धः - १, अध्ययनं. ४, उद्देशकः - १ मू. (२६९) सुतमेतमेवमेगेसिं, इत्थीवेदेति हु सुयक्खायं।
एवंपि वा वदित्ताणं, अदुवा कम्मुणा अवकाति॥ वृ. 'श्रुतम्' उपलब्धं गुवदिः सकाशाल्लोकतो वा 'एतद्' इति यत्पूर्वमा ख्यातं, तद्यथादूर्विज्ञेयं स्त्रीणां चित्तं दारुणः स्त्रीसम्बन्धविपाकः तथा चलस्वभावाः स्त्रियो दुष्परिचारा अदीर्घप्रक्षिण्यः प्रकृत्या लव्योभवन्त्यात्मगर्विताश्च इति' एवमेकेषांस्वाख्यातं भवति लोकश्रुतिपरम्परया चिरन्तनाख्यायिकासु वा परिज्ञातं भवति, तथा स्त्रियं यथावस्थितस्वभावतस्तत्सम्बन्धविपाकतश्च वेदयति-ज्ञापयतीति स्त्रीवेदो-चैशिकादिकं स्त्रीस्वभावाविर्भावकं शास्त्रमिति, तदुक्तम् - ॥१॥ "दुर्गाद्यं हृदयं यथैव वदनं यदर्पणान्तर्गतं,
भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । ॥१॥ चित्तं पुष्करपत्रतीयतरलं नैकत्र सन्तिष्ठते,
नार्यो नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिताः ॥१॥ अपिच-“सुट्ठवि जियासु सुझुवि पियासु सुहृविय लद्धपसरासु ।
अडईसु महिलियासु य वीसंभो नेव कायव्यो । ॥२॥ उन्भेउ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि ।
कामंतएण नारी जेण न पत्ताइंदुक्खाई।। ॥३॥ अह एयाणं पगई सव्वस्स करेंति वेमणस्साई।
तस्स न करेंति नवरं जस्स अलं चेच कामेहं॥ किञ्च-अकार्यमहं न करिष्यामीत्येवमुक्त्वापि वाचा 'अदुव'त्ति तथापि कर्मणा-क्रियया 'अपकुर्वन्ति' इति विरूपमाचरन्ति, यदिवा अग्रतः प्रतिपद्यापि शास्तुरेवापकुर्वन्तीति ।। मू. (२७०) अनं मनेन चिंतेति, वाया अन्नं च कम्मुणा अन्नं ।
तम्हान सद्दह भिक्खू, बहुमायाओ इथिओ नचा। वृ. सूत्रकार एव तत्स्वभावाविष्करणायाह-पातालोदरगम्मीरेण मनसाऽन्यच्चिन्तयन्ति तथा श्रुतिमात्रपेशलया विपाकदारुणया वाचा अन्यभाषन्ते तथा 'कर्मणा' अनुष्ठानेनान्यनिष्पादयन्ति, यत एवं बहुमायाः स्त्रिय इति, एवं ज्ञात्वा 'तस्मात्' तासां 'भिक्षु साधुः 'न श्रद्दधीत' तत्कृतया माययात्मानं न प्रतारवेत्, दत्तावैशिकतवत्, अत्र चैतत्काथानकम्दत्तावैशिक एकया गणिकया तैस्तैः प्रकारैः प्रतार्यमाणोऽपि तां नेष्टवान्, ततस्तयोक्तम् -
किं मया दौर्भाग्यकलङ्काङ्कितया जीवन्त्या प्रयोजनम् ?, अहं त्वत्परित्यक्ताऽग्नि प्रविशामि, ततोऽसाववोचत्-मायया इदमप्यस्ति वैशिके, तदाऽसौ पूर्वसुरङ्गामुखे काष्ठसमुदयं कृत्वा तं प्रज्चाल्य तत्रानुप्रविश्य सुरङ्गया गृहमागता, दत्तकोऽपि च इदमपि अस्ति वैशिके, इत्येवमसौ विलपन्नपिवातिकैश्चितायांप्रक्षिप्तः,तथापिनासौतासुश्रद्धानं कृतवान्, एवमन्येनापि न श्रद्धातव्यमिति किञ्चान्यत्मू. (२७१) जुवती समणं बूया, विचित्तलंकारवस्थगाणि परिहित्ता।
चिरता चरिस्सहं रुक्खं, धम्ममाइक्खं णे भयंतारो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org