________________
१२४
सूत्रकृताङ्ग सूत्रम् १/४/१/२६६ 'नारीणां स्त्रीणां संसारावतरणवीथीनां वशं तदायत्ततामुप-सामीप्येन कषन्ति व्रजन्तियद्यधत्ताः स्वप्नायमाना अपिकार्यमकार्यं वा ब्रुवतेतत्तत्कुर्वते, न पुनरेतज्जानन्ति यथैता एवम्भूता भवन्तीति, तद्यथा॥१॥"एता हसन्ति च रुदन्ति च कार्यहतोर्विश्वासयन्ति च नरं न च विश्वसन्ति ।
तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः स्मशानघटिका इव वर्जनीयाः ॥ ॥२॥ “समुद्रवीचीव चलस्वभावाः, सन्ध्यानरेखेव मुहूर्तरागाः।
स्त्रियः कुतार्था पुरुषं निरर्थकं, निष्पीडितालक्तकवत्यजन्ति। अत्र च स्त्रीस्वभावपरिज्ञाने कथानकमिदम्-तद्यथा-एको युवा स्वगृहान्निर्गत्य वैशिकं कामशास्त्रमध्येतुं पाटलिपुत्रं प्रस्थितः, तदन्तराले अन्यतरग्रामवर्तिन्यैकया योषिताऽभिहितः, तद्यथा-सुकुमारपाणिपादः शोभनाकृतिस्त्वं क प्रस्थितोऽसि ?, तेनापि यथास्थितमेव तस्याः कथितं, तया चोक्तम्-वैशिकं पठित्वा मम मध्येनागन्तव्यं, तेनापि तथैवाभ्युपगतम्, अधीत्य चासौ मध्येनायातः,।
___ तया च स्नानभोजनादिना सम्यगुपचरितो विविधहावभावैश्चापहतहृदयः संस्तां हस्तेन गृह्णाति, ततस्तया महताशब्देन पूत्कृत्य जनागमनावसरे मस्तके वारिवर्धनिका प्रक्षिप्ता, ततो लोकस्य समाकुले एवमाचष्टे-यथाऽयं गले लग्नेनोदकेन मनाक् न मृतः, ततो मयोदकेन सिक्त इति । गतेच लोके सा पृष्टवती-किं त्वया वैशिकशास्त्रोपदेशेनीस्वभावानां परिज्ञातमिति?, एवं स्त्रीचरित्रं दुर्विज्ञेयमिति नात्रास्थाकर्तव्येति, तथा चोक्तम् - ॥१॥ “हृद्यन्यद्वाच्यन्यत्कर्मण्यन्यत्पुरोऽथ पृष्ठेऽन्यत् ।
अन्यत्तव मम चान्यत्स्त्रीणां सर्वं किमप्यन्यत्।। साम्प्रतमिहलोक एव स्त्रीसम्बन्धविपाकं दर्शयितुमाह-- मू. (२६७) अवि हत्यपादछेदाए, अदुवा बद्धमंसउक्कते।
अवि तेयसाभितावणाणि, तच्छियखारसिंचणाईंच॥ वृ. स्त्रीसम्पर्को हि रागिणां हस्तपादच्छेदाय भवति, 'अपि' सम्भावने सम्भाव्यत एतन्मोहातुराणां स्त्रीसम्बन्धाद्धस्तपादच्छेदादिकम्,अथवा वर्धमांसोत्कर्तनमपि तेजसा' अग्निना 'अभितापनानि' स्त्रीसम्बन्धिभिरुत्तेजितै राजपुरुषैभटित्रकाण्यपि क्रियन्ते पारदारिकाः, तथा वास्यादिना तक्षयित्वा क्षारोदकसेचनानि च प्रापयन्तीति॥ मू. (२६८) अदु कण्णनासच्छेदं, कंठच्छेदणं तितिक्खंती।
इति इत्थ पावसंतत्ता, नय बिंति पुणो न काहिति ॥ वृ. अपिच-अथ कर्णनासिकाच्छेदं तथा कण्ठच्छेदनंच 'तितिक्षन्ते' स्वकृतदोषात्सहन्ते इति, एवं बहुविधां विडम्बनाम् 'अस्मिन्नेव' मानुषे च जन्मनि पापेन-पापकर्मणा संतप्ता नरकातिरिक्तांवेदनामनुभवन्तीतिनच पुनरेतदेवम्भूतमनुष्ठानंन करिष्यामइतिब्रुवत इत्यवधारयन्तीतियावत्, तदेवमैहिकामुष्मिका दुःखविडम्बना अप्यङ्गीकुर्वन्तिनपुनस्तदकरणतया निवृत्तिं प्रतिपद्यन्त इति भावः किञ्चान्यत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org