________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः -
नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकृदाहनि. [३६] वेयालियंमि वेयालगो य वेयालणं वियालणियं ।
तिन्निवि चउक्कगाइं वियालओ एत्थ पुण जीवो ।। वृ. तत्र प्राकृतशैल्या वेयालियमिति ४ विदारणे इत्यस्य धातोर्विपूर्वस्य छान्दसत्वात् भावे ण्वुलप्रत्ययान्तस्य विदारकमिति क्रियावाचकमिदमध्ययनाभिधानमिति, सर्वत्र च क्रियायामेतत्त्रयं सन्निहितं, तद्यथा -- कर्ता करणं कर्म चेति, अतस्तदर्शयति-विदारको विदारणं विदारणीयंच, तेषां त्रयाणामपि नामस्थापनाद्रव्यभावभेदाचतुर्दा निक्षेपेण त्रीणि चतुष्ककानि द्रष्टव्यानि, अत्रचनामस्थापने क्षुण्णे, द्रव्यविदारकोयो हिद्रव्यंकाष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीवविशेषः, साधुरिति करणमधिकृत्याऽऽहनि. [३७] दव्वं च परसुमादी दंसणणाणतवसंजमा भावे।
दव्वं च दारुगादी भावे कम्मं वियालणियं॥ वृ. नामस्थापने क्षुण्णे द्रव्यविदारणं परश्वादि, भावविदारणं तु दर्शनज्ञानतपःसंयमाः, तेषामेव कर्मविदारणे सामर्थ्यमित्युक्तं भवति, विदारणीयंतुनामस्थापने अनाध्त्य द्रव्यं दादि, भावे पुनरष्टप्रकारं कर्मेति । साम्प्रतं ‘वेतालिय'मित्येतस्य निरुक्तं दर्शयितुमाह-- नि. [३८] वेयालियं इह देसियंति वेयालियं तओ होइ ।
वेयालियं तहा वित्तमस्थि तनेव य निबद्धं ॥ वृ. इहाध्ययनेऽनेकधाकर्मणांविदारणमभिहितमितिकृत्वैतदध्ययनं निरुक्तिवशाद्विदारक ततो भवति, यदिवा-वैतालीयमित्यध्ययननाम, अत्रापि प्रवृत्तौ निमित्तं-वैतालीयंछन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि वैतालीयं, तस्य चेदं लक्षणम्॥१॥ वैतालीयं लगनैधनाः षडयूक्तादेऽटौ समे च लः।
न समोऽत्र परेण युज्यते नेतः षट्च निरन्तरा युजोः॥
__ -साम्प्रतमध्ययनस्योपोद्घातं दर्शयितुमाहनि. [३९] कामं तु सासयमिणं कहियं अट्ठावयंमि उसभेणं ।
___ अट्ठाणउतिसुयाणं सोऊणं तेवि पव्वइया॥ कामशब्दोऽयमभ्युपगमे, तत्र यद्यपि सर्वोऽप्यागमः शाश्वतः तदन्तर्गतमध्ययनमपि तथापि भगवताऽऽदितीर्थाधिपेनोत्त्पन्नदिव्यज्ञानेनाष्टापदोपरिव्यवस्थितेन भरताधिपभरतेन चक्रवर्त्तिनोपहतरष्टनवतिभि पुत्रैः पृटेन यथा भरतोऽस्मानाज्ञां कारयत्यतः किमस्माभिर्विधेयमित्यतस्तेषामङ्गारदाहकदृष्टान्तं प्रदर्श्वन कथञ्चिजन्तोर्भोगेच्छा निवर्तत इत्यर्थगर्भमिदमध्ययन 'कथितं' प्रतिपादितं।
तऽप्येतच्छ्रुत्वा संसारासारतामवगम्य विषयाणां च कटुविपाकतां निसारतां च ज्ञात्वा मत्तकरिकर्णवञ्चंपतमायुर्गिरिनदीवेगसमं यौवनमित्यतो भगवदाज्ञैव श्रेयस्करीति तदन्तिके सर्वे प्रव्रज्यां गृहीतवन्त इति । अत्र ‘उद्देसे निद्देसे य' इत्यादि सर्वोऽप्युपोद्घातो भणनीयः । साम्प्रतं उद्देशार्थाधिकार प्रागुल्लिखितं दर्शयितुमाहनि. [४०] पढमे संबोहो अनिच्चया य वीयंमि मानवजणया ।
अहिगारो पुण भणिओ तहा तहा वहुविहो तत्थ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org