________________
श्रुतस्कन्धः-२, अध्ययनं-२,
३६९
ते तथा, शीलं-व्रतविशेषः, स च भिन्नस्तेषामनुभवसिद्ध एव ।
तथानाना द्दष्टि:-दर्शनं येषां तेतथा, तथा नाना रुचिर्येषां तेनानारुचयः, तथा नानारूपमध्यवसानम्-अन्तःकरणप्रवृत्तिर्येषां ते तथा, इदमुक्तं भवति-अहिंसाऽत्र प्रधानं धमङ्गि, साच तेषां नानाभिप्रायत्वादविकलत्वेन न व्यवस्थिता । तस्या एव सूत्रकारः प्राधान्यं दर्शयितुमाह-ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिबन्धमाधाय तिष्ठन्ति, तेषां चैवं व्यवस्थितानामेकःकश्चित्परुषस्तेषां संवित्त्यर्थज्वलतामहाराणां प्रतिपूर्णां पात्रीम्-अयोमयं भाजनमयोमयेनैव संदंशकेन गृहीत्वा तेषां ढौकितवान्, उवाच च तान् यथा-भोः प्रावादुकाः ! पूर्वोक्तविशेषणविशिष्टा इदमङ्गारभृतं भाजनमकैकं मुहूर्तं प्रत्येकं बिभृत यूयं, न चेदं संदंशकं सांसारिकं नापि चाग्निस्तम्भनं विदध्युः नापि च साधर्मिकाऽन्यधार्मिकाणामग्निदाहोपशमादिनोपकारं कुर्युरिति, 'ऋजवो' मायामकुर्वाणाः पाणिप्रसारयत, तेऽपिचतथैव कुर्यु, ततोऽसौ पुरुषः तद्भाजनं पाणी समर्पयति, तेऽपिच दाहशङ्या हस्तं सङ्कोचयेयुरिति, ततोऽसौतानुवाचकिमिति पाणिं प्रतिसंहरत यूयं ?, एवमभिहितास्ते ऊचुः-दाहभयादिति।
एतदुक्तं भवति-अवश्यमग्निदाहभयान कश्चिदग्न्यभिमुखं पाणिं ददातीत्येतत्परोऽयं दृष्टान्तः । पाणिना दग्धेनाप किं भवतां भविष्यतीति ?, दुःखमिति चेद्यद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, तदेवंसति सर्वेऽपिजन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् ‘आत्मतुलया' आत्मौपम्येन यथाममनाभिमतंदुःखमित्येवं सर्वजन्तूनामित्यवगम्याहिंसैद प्राधान्येनाश्रयणीया, 'तदेतत्प्रमाणं' सैषा युक्तिः 'आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति' तदेतत् समवसरणं-स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैवपरमार्थतो धर्म, इत्येवं व्यवस्थिते तत्रये केचनाविदितपरमार्थाः श्रमणब्राह्मणादयः ‘एवं वक्ष्यमाणमाचक्षतेपरेषामात्मदायोत्पादनायैवंभाषन्ते तथैवमेव धर्म 'प्रज्ञापयन्ति व्यवस्थापयन्ति, तथा अनेनप्राण्युपतापकारिणाप्रकारेण परेषां धर्म प्ररूपयन्ति' व्याचक्षते।
तद्यथा-'सर्वे प्राणा' इत्यादि, यावद्धन्तयव्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिग्राह्या विशिष्टकाले श्राद्धादौ रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं बस्तादय इवेत्येवं ये श्रमणादय- प्राणिनामुपतापकारिणी भाषां भाषन्ते आगामिनि कालेऽनेकशो बहुशः स्वशरीरच्छेदाय भेदाय च भाषन्ते, तथा ते सावधभाषिणो भविष्यति काले जातिजरामरणानिबहूनि प्राप्नुवन्ति । योन्यां जन्मयोनिजन्मतदनेकशो गर्भव्युक्रान्तजावस्थायां प्राप्नुवन्ति, तथासंसारप्रपञ्चान्तर्गतास्तेजोवायुषूञ्चैौत्रोद्वलनेन कलङ्कलीभावभाजी भवन्ति बहुशो भविष्यन्तिच, तथा ते बहूनांदण्डादीनांशारीराणांदुःखानामात्मानं भाजन कुर्वन्ति, तथा ते निर्विवेका मातृवधादीनां मानसानां दुःखानां तथाऽन्येषामप्रियसंप्रयोगार्थनाशादिभिर्दुखदौर्मनस्यानामामागिनो भविष्यन्तीति।
किंबहुनोक्तेन?,उपसंहारव्याजेन गुरुतरमनर्थसंबन्धंदयितुमाह-'अणादियं इत्यादि, नास्यादिरस्तीत्यनादि-संसारः, तदनेनेदमुक्तं भवति-यत्कैश्चिदभिहितं यथाऽयमण्डकादिक्रमेणोत्पादित इत्येतदपास्तं, न विद्यतेऽवदग्रं-पर्यन्तो यस्य सोऽयमनवदग्रोऽपर्यन्त इत्यर्थः, [2] 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org