SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३७० सूत्रकृताङ्ग सूत्रम् २/२/-/६७३ तदनेनेदमुक्तं भवति-यदुक्तं कैश्चिद्यथा प्रलयकालेऽशेषसागरजलप्लावनं द्वादशादित्योद्गमेन चात्यन्तदाह इत्यादिकं सर्वं मिध्येति, 'दीर्घ' मित्यनन्तपुद्गलपरावर्तरूपकालावस्थानं, तथा चत्वारोऽन्ता-गतयो यस्य स तथा, चातुर्गतिक इत्यर्थः, तत्संसार एव कान्तारः संसारकान्तारो, निर्जलः समयस्त्राणरहितोऽरण्यप्रदेशः कान्तार इति । तदेवंभूतं भूयो भयः' पौनःपुन्येनानुपरिवर्तिष्यन्ते-अरहट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्तीति, अतएवाह-यतस्तेप्राणिनां हन्तारः, कुत एतदिति चेत्सावद्योपदेशाद्, एतदपि कथमिति चेदन्ततः औद्देशिकादिपरिभोगानुज्ञयेत्येवमवगन्तव्यमित्यतस्ये कुप्रावचनिका नैव सेत्स्यन्ति नैवते लोकाग्रस्थानमाक्रमिष्यन्ति, तथा न ते सर्वपदार्थान् केवलज्ञानावाप्तया भोत्स्यन्ते अनेन ज्ञानातिशयाभावमाह, तथा न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते, अनेनाप्यसिद्धरकैवल्यावाप्तेश्च कारणमाह, तथा परिनिर्वृति परिनिर्वाणं-आनन्दसुखावाप्तिस्तांतेनैव प्राप्स्यन्ते, अनेनापिसुखातिशयाभावः प्रदर्शितो भवतीति, तथा नैतेशारीरमानसानांदुःखानामात्यन्तिकमन्तं करिष्यन्तीत्यनेनाप्यपायातिशयाभावः प्रदर्शितो भवति । एषा तुला' तदेतदुपमानं यथा सावद्यानुष्ठानपरायणाःसावधभाषिणश्चकुप्रावचनिकानसिध्यन्त्येवंस्वयूथ्या अप्यौद्देशिकादिपरिभोगिनो न सिध्यन्तीति । तदेतप्रमाणं प्रत्यक्षानुमानादिकं, तथाहि-प्रत्यक्षेणैव जीवपीडाकारी चौरादिर्बन्धनान्न मुच्यते, एवमन्येऽपीति,अनुमानादिकमप्यायोज्यं । तथा तदेतत्समवसरणम्आगमविचाररूपमिति, प्रत्येकं च प्रतिप्राणि प्रतिप्रावादुकमेतत्तुलादिकं द्रष्टव्यमिति। येपुनर्विदितत्त्वाआत्मौपम्येन-आत्मतुलयासर्वजीवेष्यहिंसांकुर्वाणाएवमाचक्षते, तद्यथासर्वेऽपिजीवा दुःखद्विषः सुखलिप्सवस्तेनहन्तव्या इत्यादि।तदेवंपूर्वोक्तंदण्डनादिकंसप्रतिषेधं भणनीयं यावत्संसारकान्तारमचिरेणैव ते व्यतिक्रमिष्यन्तीति ।। भणितानि क्रियास्थानानि, साम्प्रतमुपसंजिघृक्षुरेतदेव पूर्वोक्तं समासेन बिभणिषुराह मू. (६७४) इच्छेतेहिं बारसहि किरियाठाणेहिं वट्टमाणा जीवा नो सिन्झिसु नो बुद्धिंसु नो मुन्निसुनो परिनिव्वाइंसुजाव नो सव्वदुक्खाणं अंतं करेंसु वा नो करेति वा नो करिस्संति वा एयंसि चेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिद्धिंसु बुद्धिंसु मुर्बिसु परिणिव्वाइंसु जाव सब्बदुक्खाणं अंतं करेंसु वा करंति वा करिस्संतिचा। एवं से भिक्खु आयट्ठी आयहिते आयगुत्ते आयजोगे आयपरक्कमे आयरखिए आयाणुकंपए आयनिफेडए आयाणमेव पडिसाहरेज्जासित्तिबेमि।। वृ.इत्येतेषुद्वादशसुक्रियास्थानेष्वधर्मपक्षोऽनुपशमरूपःसमवतार्यते, अतएतेषुवर्तमाना जीवा नातीते काले सिद्धा न वर्तमाने सिध्यन्ति न भविष्यति सेत्स्यन्ति, तथा न बुबुधिरे न बुध्यन्ते नच भोत्स्यन्ते, तथा न मुमुचुर्न मुञ्चन्ति नचमोक्ष्यन्ते, तथा ननिर्वृता न निर्वान्तिन व निर्वास्यन्ति, तथा नदुःखानामन्तं ययुर्नपुनर्यान्तिनच यास्यन्तीति।साम्प्रतंत्रयोदशं क्रियास्थानं धर्मपक्षाश्रितं दर्शयितुमाह-एतस्मिंस्त्रयोदशे क्रियास्थाने वर्तमाना जीवाः सिद्धाः सिध्यन्ति सेत्स्यन्तीतियावत्सर्वदुःखानामन्तं करिष्यन्तीति स्थितं तदेवंसभिक्षुर्य पौण्डरीकाध्ययनेऽभिहितो द्वादशक्रियास्थानवर्जकः अधर्मपक्षानुपशमपरित्यागी धर्मपक्षे स्थित उपशान्त आत्मनाआत्मनो वाऽर्थः आत्मार्थःसविद्यते यस्य सतथा, यो ह्यन्यमपायेभ्योरक्षतिसआत्मातिमवानित्युच्यते, अहिताचाराश्च चौरादयो नात्मवन्तोऽयंत्वात्महित ऐहिकामुष्मिकापायभीरुत्वात्, तथाऽऽत्मा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy