________________
सूत्रकृताङ्ग सूत्रम् १/१/१/१० प्रतिपाद्यप्रतिपादकविवेकाभावाच्छाप्रणयनाभावश्च स्यादिति । एतदर्थसंवादित्वात्प्राक्तन्येव निर्युक्तिकृद्गाथाऽत्र व्याख्यायते, तद्यथा- पञ्चानां पृथिव्यादीनां भूतानामेकन्त्र कायाकारपरिणतानां चैतन्यमुपलभ्यते, यदि पुनरेक एवात्मा व्यापी स्यात्तदा घटादिष्वपि चैतन्योपलब्धि स्यात्, न चैवं, तस्मान्नैक आत्मा, भूतानां चान्याऽन्यगुणत्वं न स्याद्, एकस्मादात्मनोऽभिन्नत्वात्, तथा पञ्चेन्द्रियस्थानानां-पञ्चेन्द्रियाश्रितानां ज्ञानानां प्रवृत्तौ सत्यामन्येन ज्ञात्वा विदितमन्यो न जानातीत्येतदपि न स्याद्यद्येक एवात्मा स्यादिति साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाहमू. (99) पत्तेअं कसिणे आया, जे बाला जे अ पंडिआ । संति पिच्चा न ते संति, नत्थि सत्तोववाइया ॥
वृ. तजीवतच्छरीरवादिनामयमभ्युपगमः यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्येवा, तेनैकैकं शरीरं प्रति प्रत्येकमात्मानः 'कृत्स्नाः' सर्वेऽप्यात्मान एवमवस्थिताः, ये ‘वाला' अज्ञा ये च 'पण्डिताः' सदसद्विवेकज्ञास्ते सर्वे पृथग् व्यवस्थिताः, नह्येक एवात्मा सर्वव्यापित्वेनाभ्युपगन्तव्यो बालपण्डिताद्यविभागप्रसङ्गात्, ननु प्रत्येकशरीराश्रयत्वेनात्मबहुत्वमार्हतानामपीरमेवेत्याशङ्कयाह- 'सन्ति' विद्यन्ते यावच्छरीरं विद्यन्ते तदभावे तु न विद्यन्ते, तथाहि
२६
कायाकारपरिणतेषु भूतेषु चैतन्याविर्भावो भवति, भूतसमुदायविघटने च चैतन्यापगमो, न पुनरन्यत्र गच्छच्चैतन्यमुपलभ्यते, इत्येतदेव दर्शयति 'पिच्चा न ते संती'ति 'प्रेत्य' परलोके न 'ते' आत्मानः 'सन्ति' विद्यन्ते, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्ता न कश्चिदात्माख्यः पदार्थोऽस्तीति भावः । किमित्येवमत आह- 'नत्थि सत्तोववाइया' अस्तिशब्दस्तिङन्तप्रतिरूपको निपातो बहुवचने द्रष्टव्यः ।
तदयमर्ध-'न सन्ति' न विद्यन्ते 'सत्त्वाः' प्राणिन उपपातेन निर्वृत्ता औपपातिका-भवाद्भवान्तरगामिनो न भवन्तीति तात्पर्यार्थ, तथाहि तदागमः- “विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञाऽस्तीति, ननु प्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरचादिनः को विशेष इति ?, अत्रोच्यते, भूतवादिनो भूतान्येव कायाकारपरिणतानि धावनवल्गनादिकां क्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूतेभ्यश्चैतन्याख्य आत्मोत्पद्यतेऽभिव्यज्यते वा, तेभ्यश्चाभिन्न इत्ययं विशेषः एवं च धर्मिणोऽभावाद्धर्मस्याप्यभाव इति दर्शयितुमाहनत्थि पुण्णे व पावे वा, नत्थि लोए इतो वरे ।
मू. (१२)
सरीरस्स विनासेनं, विनासो होइ देहिणो ।।
वृ. 'पुण्यम्' अभ्युदयप्राप्तिलक्षणं तद्विपरीतं पापमेतदुभयमपि न विद्यते, आत्मनो धर्मिणोऽभावात्, तदभावाच्च नास्ति 'अतः' अस्माल्लोकात् परः' अन्यो लोको यत्र पुण्यपापानुभव इति, अत्र चार्थे सूत्रकारः- 'शरीरस्य' कायस्य 'विनाशेन' भूतविघटनेन 'विनाशः ' अभावो ‘देहिन’ आत्मनोऽप्यभावो भवति यतः, न पुनः शरीरे विनष्टे तस्मादात्मा परलोकं गत्वा पुण्यं पापं वाऽनुभवतीति, अतो धर्मिण आत्मनोऽभावात्तद्धर्मयोः पुण्यपापयोरप्यभाव इति, अस्मिंश्चार्थे बहवो ध्टान्ताः सन्ति, तद्यथा
यथा जलबुद्बुदो जलातिरेकेण नापरः कश्चिद्विद्यते तथा भूतव्यतिरेकेण नापरः कश्चिदात्मेति तथा यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वङ्गात्रमेव सर्वं नान्तः कश्चित्सारोऽस्ति एवं भूतसमुदाये विघटति सति तावन्मात्रं विहाय नान्तः सारभूतः कश्चिदात्माख्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org