________________
श्रुतस्कन्धः - २, अध्ययनं-१,
३०५ धर्मो मदीयोऽयमित्येवमभ्युपगम्य स्वतोऽपरेषां च तं तथा भूतं धर्म प्रतिपादयन्ति । यद्यपि लोकायतिकानां नास्ति दीक्षादिकं तथाऽप्यपरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्य पश्चाल्लोकायतिकमधीयानस्य तथाविधपरिणतेस्तदेवाभिरुचितम, अतो मामकोऽयं धर्म स्वयमभ्युपगच्छन्त्यन्येषांचप्रज्ञापयन्ति, यदिवा-नीलपटाद्य-भ्युपगन्तुःकश्चिदस्त्येवप्रव्रज्याविशेष इति । सांप्रतं तत्प्रज्ञापितशिष्यव्यापारमधिकृत्याह-तं सद्दहमाणे त्यादि, 'तं' नास्तिकवाद्युप न्यस्तं धर्मं विषयिणामनुकूलं 'श्रद्दधानाः' स्वमतावतिशयेन रोचयन्तः तथा 'प्रतिपादयन्तः' अवितथभावेनगृहन्तःतथा तत्ररुचिंकुर्वन्तः तथा साधु-शोभनमेतद्यत् तथास्वाख्यातो-यथावस्थितो भवता धर्मोऽन्यथाऽसति हिंसादिष्ववर्तमानाः परलोकभयात्सुखसाधनेषु मांसमधादिष्वप्रवृत्ति कुर्वन्तो मनुष्यजन्मफलवञ्चिता भवेयुः, ततः शोभनमकारी भवता हे श्रमण! ब्राह्मण ! इति वा यदयं तज्जीवतच्छरीरधर्मोऽस्माकमावेदितः । ___काममिष्टमेतदस्माकंधर्मकथनं, खलुशब्दो वाक्यालङ्कारे, हे आयुष्मंस्त्यावयमभ्युध्धृताः अन्यथा कापटिकैस्तीर्थिकैञ्चिताः स्युरि ति, तस्मादुपकारिणं त्वां' भवन्तंपूजयामः, अहमपि कञ्चिदायुष्मतो भवतः प्रत्युपकारं करोमि । तदेव दर्शयति-तद्यथा 'असणेणे त्यादि सुगम यावत्पादपुञ्छनकमिति। तत्रैके केचन पूर्वोक्तया पूजया पूजायां वा 'समाउटिंसुत्ति समावृत्ताःप्रीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः सन्तस्तं राजादिकं स्वदर्शनप्रतिपन्नमेके केचन स्वदर्शनस्थित्या हिताहितप्राप्तिपरिहारेषु “निकाचितवन्तो' नियमितवन्तः, तथाहि भवतेदं तञ्जीवतच्छरीरमित्यभ्युपगन्तव्यम्, अन्यो जीवोऽन्यञ्च शरीरमित्येतच्च परित्याज्यम्, अनुष्ठानमपि एतदनुरूपमेव विधेयमित्येवं निकाचितवन्त इति ।
तत्रये भागवतादिकंलिङ्गमभ्युपगताः पश्चाल्लोकायत ग्रन्थश्रवणेन लोकायताः संवृत्तास्तेषां 'पूर्वम्' आदी प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति, तद्यथा-परित्यक्तपुत्रकलत्राः 'श्रमणा' यतयो भविष्यामः 'अनगारा गृहरहिताः तथा निष्किञ्चनाः किञ्चन-द्रव्यंतद्रहिताः तथा 'अपशवो' गोमहिष्यादिरहिताः, परदत्तभोजिनः स्वतः पचनपाचनादिक्रियारहितत्वात्, भिक्षणशीला भिक्षवः, कियद्वक्ष्यतेअन्यदपियत्किञ्चित्पापं-सावधंकर्मानुष्टानंतत्सर्वं न करिष्यामीत्येवंसम्यगुत्थानेनोत्थाय पूर्वपश्चात्तेलोकायतिकभावमुपगता आत्मनः-स्वतः पापकर्मभ्योऽप्रतिविरताभवन्ति, विरत्यभावे चयत्कुर्वन्तितद्दर्शयति-पूर्वंसावद्यारम्भानिवृत्ति विधाय नीलपटादिकंच लिङ्गमास्थायस्वयमात्मना सावद्यमनुष्ठानमाददते स्वीकुर्वन्ति अन्यानप्यादापयन्ति-ग्राहयन्त्यन्यमप्याददान-परिग्रहं स्वीकुर्वन्तं समनुजानन्ति।
एवमेव-पूर्वोक्तप्रकारेण स्त्रीप्रधानाः स्त्रियोपलक्षिता वा काम्यन्त इति कामा भुज्यन्त इति भोगास्तेषु सातबहुलतयाऽजितेन्द्रियाः सन्तस्तेषु कामभोगेषु मूर्छिता एकीभावतामापन्ना गृद्धाः-काङ्क्षावन्तो ग्रथिता-अवबद्धा अध्युपपन्ना-आधिक्येन भोगेषुलुब्धा रागद्वेषा(षवशा) - रागद्वेषवशगाः कामभोगान्धावा,तएवं कामभोगेषुअवबध्धाः सन्तोनात्मानं संसारात्कर्मपाशाद्वा समुच्छेदयन्ति-मोचयन्ति, नापि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्तिकर्मबन्धात्रोटयन्ति, नाप्यन्यान् दशविधप्राणवर्तिनः प्राणान्-प्राणिनः, तथा अभूवन् भवन्ति
2|20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org