________________
३०४
सूत्रकृताङ्ग सूत्रम् २/१//६४१ नोपलभ्यते तस्मात्तन्मिथ्या यत्कैश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति ॥ एतदध्यवसायी च 'स' लोकायतिकः स्वतः प्राणिनामेकेन्द्रियादीनां 'हन्ता' व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं ददाति, तद्यथा-प्राणिनः खङ्गादिना धातयत, पृथिव्यादिकं खनतेत्यादि सुगमं यावद् ‘एतावानेव' शरीरमात्र एव जीवः, ततः परलोकिनोऽभावानास्ति परलोकः, तदभावाच्यथेष्टमासत तथा चोक्तम्॥१॥ "पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तत्र ते ।
नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ तदेवं परलोकयायिनो जीवस्याभावान्न पुण्यपापे स्तः नापि परलोक इत्ययं येषां पक्षस्ते लोकायतिकास्तजीवतच्छरीरवादिनो नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्ति-अभ्युपगच्छन्ति, तद्यथाक्रियां वा सदनुष्ठाना मिकाम् अक्रियां वा-असदनुष्ठानरूपाम्, एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तक्रियावाप्तकर्मणो भोक्ता स्यात्ततोऽपायभयात्सदनुष्ठानचिन्ता स्यात्, तदभावाच्च सक्रियादिचिन्ताऽपि दूरोत्सादितैव । तथसुकृतं दुष्कृतंवा कल्याणमिति वा पापमिति वा-साधु कृतमसाधुकृतमित्यादिकाचिन्तैवनास्ति, तथाहि-सुकृतानां-कल्याणविपाकिनांसाधुतयाऽवस्थानं दुष्कृतानांच-पापविपाकिनामसाधुत्वेनावस्थानम्, एतदुभयमपि सत्यात्मनि तत्फलमुजि संभवति, तदभावाय कुतोऽनर्थको हिताहितप्राप्तिरिहा स्यातां?।।
तथा सुकृतेन-कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिस्तद्विपर्ययेणासिद्धि, तथा दुष्कृतेन-पापानुबन्धिना असाध्वनुष्ठानेन नरकोऽनरकोवा-तिर्यक्नरामरगतिलक्षणः स्यादित्येवमात्मिका चिन्तैवन भवेत्, तदाधारस्यात्मसद्भावस्यानभ्युपगमादिति भावः ।पुनरपि लोकायतिकानुष्ठानदर्शनायाह-एवंते' इत्यादि 'एवम् अनन्तरोक्तेन प्रकारेण ते नास्तिका आत्माभावं प्रतिपद्य विरूपं-नानाप्रकाररूपं-स्वरूपं येषांतेतथा कर्मसमारम्भाः-सावद्यानुष्ठानरूपाः पशुधातमां सभक्षणसुरापाननिलाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भैः कृषीबलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् ‘समारभन्ते' समाददति तदुपभोगार्थमिति।
साम्प्रतं तज्जीवतच्छरीरवादिमतमुपसंजिघृक्षुः प्रस्तावमारचयन्नाह-एवं चेग' इत्यादि, मूर्तिमतः शरीरादन्यदमूतं ज्ञानमात्मन्यनुभूयते, तस्य चामूर्तेनैव गुणिनाभाव्यम्, अतः शरीरात्पृथग्भूतआत्माऽमूर्तीज्ञानवत् तदाधारभूतोऽस्तीति, नचात्माभ्युपगममन्तरेणतज्जीवतच्छरीरवादिनः कथञ्चिद्विचार्यमाणं मरणमुपपद्यते, श्यन्ते च तथाभूतएव शरीरे म्रियमाणा मृताच, तथा कृतः समागतोऽहं कुतरःचेदं शरीरंपरित्यज्ययास्यामि?, तथा 'इदं' मेशरीरंपुराणं कर्मेत्येवमादिकाः शरीरात्पृथग्भावेनात्मनि संप्रत्यया अनुभूयन्ते, तदेवमपि स्वानुभवसिद्धेऽप्यात्मनि एके केचन नास्तिकाः पृथगजीवास्तित्वमश्रद्दधानाः 'प्रागलिभकाः' प्रागल्म्येन चरन्ति धृष्टतामापना अभिदधति-यद्ययमात्मा शरीरात्पृथग्भूतः स्यात् ततः संस्थानवर्णगन्धरसस्पर्शान्यतमगुणोपेतः स्यात्, नचतेवराकाः स्वदर्शनानुरागा तमसावृतदष्टयएतद्विदन्ति यथा-मूर्तस्यायं धर्मोनामूर्तस्य, न हि ज्ञानस्य संस्थानादयो गुणाः संभाव्यन्ते, न च तत्तदभावेऽपि नास्ति, इत्येवमात्मापि संस्थानादिगुणरहितोऽपि विद्यत इति, एवं युक्तियुक्तमप्यात्मानं धाष्टान्नाभ्युपगच्छन्ति।
तथा 'निष्क्रम्य' चस्वदर्शनविहितां प्रव्रज्यां गृहीत्वा नान्यो जीवःशरीराद्विद्यत इत्येवं यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org