________________
श्रुतस्कन्धः - २, अध्ययनं - 9,
३०३
जीवोऽप्यवाप्त एव भवति, एष च कायो यावन्तं कालं जीवेद्-अविकृत आस्ते तावन्तमेव कालं जीवोऽपि जीवतीत्युच्यते, तदव्यतिरेकात्
तथैव कायो यदा 'मृतो' विकारभाग्यवति तदा जीवोऽपि न जीवति, जीवशरीरयोरेकात्मकत्वात् यावदिदं शरीरं पञ्चभूतात्मकमव्यङ्गं चरति तावदेश्च जीवोऽपीति, तस्मिंश्च विनष्टे सति - एकस्यापि भूतस्यान्यथा भावे विकारे सति जीवस्यापि तदात्मनो विनाशः, तदेवं यावदेतच्छरीरं वातपित्तश्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति, तस्मिंश्च विनष्टे तदात्माजीवोऽपि विनष्ट इतिकृत्वा 'आदहनाय' आसमन्ताद्दहनार्थः श्मशानादौ नीयते यतोऽसौ, तस्मिंश्च शरीरेऽग्निना ध्मापिते कपोतवर्णान्यस्थीनि केवलमुपलभ्यन्ते न तदतिरिक्तोऽपरः कश्चिद्विकारः समुपलभ्यते यत आत्मास्तित्वशङ्का स्यात्, ते च बान्धवा जघन्यतोऽपि चत्वारः आसन्दी मञ्चकः स पञ्चमो येषां ते आसन्दीपञ्चमाः पुरुषास्तं कायमग्निना ध्मापयित्वा पुनः स्वग्रामं प्रत्यागच्छन्ति, यदि पुनस्तत्रात्मा निजशरीराद्भिन्नः स्यात्ततः शरीरान्निर्गच्छन् दृश्यते न चोपलभ्यते, तस्मात्तज्जी- वस्तदेव शरीरमिति स्थितं ।
तदेवमुक्तनीत्याऽसौ जीवोऽसन्- अविद्यमानस्तत्र तिष्ठन् गच्छंश्च 'असंवेद्यमानः ' अननूभूयमानः येषामयं पक्षस्तेषां तत्स्वाख्यातं भवति, येषां पुनरन्यो जीवोऽन्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमः, तस्मात्ते स्वमूढ्या प्रवर्तमाना 'एव' मिति वक्ष्यमाणं तेनैव 'विप्रतिवेदयन्ति' जानन्ति तद्यथा - अयमात्माऽऽयुष्मन् शरीराद्बहिरभ्युपगम्यमानः किंप्रमाणकः स्यादिति वाच्यं, तत्र किं दीर्घ- स्वशरीराप्रांशुतरः उत ह्रस्वः - अङ्गुष्ठश्यामाकतण्डुलादिपरिमाणो वा ?, तथा संस्थानानां परिमण्डलादीनां मध्ये किंसंस्थानः ?, तथा कृष्णादीनां वर्णानां मध्ये कतमवर्णवर्ती
तथा द्वयोर्गन्धयोर्मध्ये किंगन्धः ?, षण्णां रसानां मध्ये कतमरसवर्ती ?, तथाऽष्टानां स्पर्शानां मध्ये कतमे स्पर्शे वर्तते ? । तदेवं संस्थावर्णगन्धरसस्पर्शान्यरूपतया कथमप्यसावगृह्यमाणोऽसन्नसी, तथापि केनापि प्रकारेण संवेद्यमानोऽपि येषां तत्स्वाख्यातं भवति तथाऽन्यो जीवोऽन्यच्छरीरकमित्ययं पक्षः, तस्मात्पृथगविद्यमानत्वात्ते शरीरात्पृथगात्मवादिनो नैव वक्ष्यमाणनीत्याऽत्मानमुपलभन्ते । तद्यथा नाम कश्चित्पुरुषः 'कोशतः' परिवाराद् 'असिं' खङ्गम् 'अभिनिर्वर्त्य' समाकृष्यान्येषामुपदर्शयेत्, तद्यथा-अयमायुष्मन् ! 'असि' खङ्ग्रोऽयं च 'कोशः ' परिवारः, एवमेव जीवशरीरयोरपि नास्त्युपदर्शयिता, तद्यथा - अयं जीव इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिद् अतः कायान्न भिन्नो जीव इति ।
अस्मिंश्चार्थे बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह- तद्यथा वा कश्चित्पुरुषो 'मुञ्जात्' तृणविशेषात् 'इसियं'ति तद्गर्भभूतां शलाकां पृथककृत्य दर्शयेत्, तथा मांसादस्थि तथा करतलादाम - लकं तथा दघ्नो नवनीतं तिलेभ्यस्तैलं इति तथेक्षो रसं तथाऽरणितोऽग्निमभिनिर्वर्त्य - पृथकृकृत्य दर्शयेद्, एवमेव शरीरादपि जीवमिति, न चास्त्येवमुपदर्शयिताऽतोऽसन्नात्मा शरीरापृथग-संवेद्यमानश्चेति । प्रयोगश्चात्र सुखदुःखभाक् परलोकानुयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपि शरीरके पृथगनुपलब्धेः घटात्मवत्, व्यतिरेकेण च कोशखड्गवत्, तदेवं युक्तिभिः प्रतिपादितेऽप्यात्माभावे येषां पृथगात्मवादिनां स्वदर्शनानुरागादेतत्स्वाख्यातं भवति, तद्यथा -
अन्यो जीवः परलोकानुयायी अमूर्तः, अन्यच्च तद्भववृत्ति मूर्तिमच्छरीरम्, एतच्च पृथङ्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
7