________________
श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशकः -
११५
पर
वृ. प्रथमे उद्देशके अयमर्थाधिकारः, तद्यथा-स्त्रीभिः सार्धं 'संस्तवेन' परिचयेन तथा 'संलापेन' भिन्नकथाधालापेन, आदिग्रहणादङ्गप्रत्यङ्गनिरीक्षणादिनाकामोत्कोचकारिणा भवेदल्पसत्त्वस्य शीलस्य' चारित्रस्य स्खलना तुशब्दात्तत्परित्यागो वेति, द्वितीयेत्वयमर्थाधिकारः, तद्यथा
शीलस्खलितस्य साधोः 'इहैव' अस्मिन्नेव जन्मनि स्वपक्षपरपक्षकृता तिरस्कारादिका विडम्बना तत्प्रत्ययश्च कर्मबन्ध, ततश्च संसारसागरपर्यटनमिति, किं स्त्रीभिः कश्चित् शीलात् प्रच्याव्यात्मवशः कृतो येनैवमुच्यते?, कृत इति दर्शयितुमाहनि. [५९] सूरा मो मन्नंता कइतवियाहिं उवहिप्पहाणाहि ।
गहिया हु अभयपञ्जोयकूलवालादिणो बहवे ।। वृ. बहवः पुरुषाअभयप्रद्योतकूलवालादयः शूरावयमित्येवं मन्यमानाः, मो इति निपातो वाक्यालङ्कारार्थ, 'कृत्रिमाभिः' सद्भावरहिताभि स्त्रीभिस्तथा उपधि-माया ततप्रधानाभिः कृतकपटशताभिः 'गृहीता' आत्मवशतांनीताः केचन राज्यादपरेशीलात्प्रच्याव्येहैव विडम्बनां प्रापिताः, अभयकुमारादिकथानकानिचमूलादावश्यकादवगन्तव्यानि, कथानकत्रयोपन्यासस्तु यथाक्रमं अत्यन्तबुद्धिविक्रमतपस्वित्वख्यापनार्थ इति ।। यत एवं ततो यत्कर्तव्यं तदाहनि. [६०] तम्हा न उ वीसंभो गंतव्यो निच्चमेव इत्थीसुं।
पढमुद्देसे भणिया जे दोसा ते गणंतेणं ।। वृ. यस्मात् स्त्रियः सुगतिमार्गार्गला मायाप्रधाना वञ्चनानिपुणास्तस्मादेतदवगम्य नैव 'विशम्भो' विश्वासस्तासां विवेकिना 'नित्यं' सदा 'गन्तव्यो' यातव्यः, कर्वय इत्यर्थ, ये दोषाः प्रथमोद्देशके अस्योपलक्षणार्थत्वात् द्वितीयेच तान् ‘गणयता' पर्यालोचयता, तासांमूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति ।। अपिचनि. [६१] सुसमत्थाऽवऽसमत्था कीरंती अप्पस त्तिया पुरिसा।
.. दीसंतीसूरवादी नारीवसगा न ते सूरा ।।
वृ. परानीकविजयादौ सुष्ठु समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता असमर्था' भ्रूत्क्षेप-मात्रभीरवः क्रियन्ते अल्पसात्त्विकाःस्त्रीणामपिपादपतनादिचाटुकरणेन निसाराः क्रियन्ते, तथा 'दश्यन्ते प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं वदितुंशीलं येषां ते शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताश्च न ते शूरा इति, तस्मात् स्थितमेतद्-अविश्वास्याः स्त्रिय इति, उक्तंच॥१॥ "को वीससेज तासिं कतिवयभरियाण दुब्वियड्ढाणं!।
खणरत्तविरत्ताणं धिरत्थु इत्थीण हिययाणं ॥ ॥२॥ अनंनं भणंति पुरओ अन्नं पासे निवजमाणीओ।
अन्नं च तासिं हियए जंच खमं तं करिति पुणो ।। ॥३॥ को एयाणं नाहिइ वेत्तलयागुम्मगुविलहिययाणं ।
__भावं भग्गासाणं तत्थुप्पन भणंतीणं ।। ॥४॥ महिला य रत्तमेत्ता उच्छुखंडं च सक्करा चेव ।
सा पुण विरत्तमित्ता निबंकूरे विसेसेइ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org