________________
३९६
सूत्रकृताङ्ग सूत्रम् २/४/-/७०१ योग्यतया सर्वेषां प्राणिना व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं भवतियद्यप्युत्थानादिकं विनयं कुतश्चिन्निमित्तादसौ विधत्ते तथाऽप्युदायिनृपव्यापादकवदन्तर्दुष्ट एवेति, नित्यं प्रशठव्यतिपातचित्तदण्डश्च यथा परशुरामः कृतवीर्यं व्यापाद्यापि तदुत्तरकालं सप्तवारं निःक्षत्रां पृथिवीं चकार, आह हि --
119 11
“अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरुतेऽरियातनां द्विषतां मूलमसेषमुद्धरेत् ॥
इत्येवमसावमित्रभूतो मिध्याविनीतश्च भवतीति । साम्प्रतमुपसंहरन् प्राक् प्रतिपादितमर्धमनुवदन्नाह एवं खलु भगवया' इत्यादि, यथाऽसौ वधकः स्वपरावसरापेक्षी सन्न तावद् घातयत्यथ चानिवृत्तत्वाद्दोषदुष्ट एव, एवमसावप्येकेन्द्रियादिकोऽस्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहतप्रत्याख्यातासक्रियादिदोषदुष्ट इति, शेषं सुगमं यावत्पापं कर्म क्रियत इति ॥ तदेवं दृष्टान्तदार्थन्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाऽधुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्ट आत्मा भवति इत्येतव्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य गृहपतेस्तत्पुत्रस्य वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेकं पृथक् पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरोऽहमेनं वैरिगं मदाधिविधायिनं घातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्री वा सुप्तो वा जाग्रद्वा सर्वास्ववस्थासु सर्वेषामेव वध्यानां प्रत्येकममित्रभूतोऽवसरापेक्षितयाऽघ्नन्नपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवति, एवं रागद्वेषाकुलितो बालवालो ज्ञानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येकं वध्ये, घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति, इदमुक्तं भवति ।
यथाऽसौ तस्माद्गृहपतिराजादिघातादनुपशान्तवैरः कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरतिसद्भावाद्वैरान्न निवर्त्तते तव्यत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रियविकलेन्द्रियादयस्तत्प्रत्ययिकेन कर्मणा बध्यन्ते, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतध्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहैवं पञ्चावयवस्य वाक्यस्य सूत्राणां विभागो द्रष्टव्यः, तद्यथा- 'आया अपञ्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कजइति इतीयं प्रतिज्ञा, तत्र परः प्रतिज्ञामात्रेणोक्तमनुक्तसममितिकृत्वा चोदयति, तद्यथा'तत्थ चोयए पन्नवर्ग एवं वयासीत्यत आरभ्य यावज्जे ते एवमाहंसु मिच्छं ते एवमाहंसु' त्ति
तत्र प्रज्ञापकश्चोदकं प्रत्येवं वदेत्, तद्यथा - यन्मया पूर्वं प्रतिज्ञातं तत्सम्यक्, कस्य हेतोः केन हेतुनेति चेत्, तत्र हेतुमाह- 'तत्थ खलु भगवया छ जीवनिकाया हेऊ पन्नत्ता इत्यत आरभ्य यावत् मिच्छादंसणसल्ले' इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकत्वव्युदासार्थं स्वपक्षे सिद्धिं दर्शयितुं ष्टान्तमाह, तद्यथा- 'तत्थ खलु भगवया वहए दिट्टंते पन्नत्ते इत्यत आरभ्य यावत् खणं लद्धणं वहिस्सामीति पहारेमाणे' त्ति, तदेवं दृष्टान्तं प्रदर्श्य तत्र च हेतोः सत्तां स्वाभिप्रेतां परेण भाणयितुमाह'से किं नु हु नाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति' तदेवं हेतोर्धष्टान्ते सत्त्वं प्रसाध्य हेतोः पक्षधर्मत्वं दर्शयितुमुपनयार्थं दृष्टान्तधर्मिणि हेतोः सत्तां परेणाभ्युपगतामनुवदति- 'जहा से वहए इत्यत आरभ्य यावन्निच्चं पसढविउवायचित्तदंडे 'त्ति, साम्प्रतं हेतोः पक्षधर्मत्वमाह- 'एवमेव बाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे कज्जइ'ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org