SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - ४, त्वान्मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वं द्रष्टव्यं तद्भावाश्च ते कथं प्राणातिपातादिदोषवन्तो न भवन्ति, प्राणातिपातादिदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थिते यत्प्रागुक्तं परेण यथा - नाव्यक्तविज्ञानानामघ्नताममनस्कानां कर्मबन्ध इत्येतत्प्लवते ॥ साम्प्रतमाचार्यः स्वपक्षसिद्धये दृष्टान्तमाह- 'तत्थ खलु भगवया' तत्रेति वाक्योपन्यासार्थमाह, खलुशब्दो वाक्यालङ्कारे, भगवता-ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयस मन्वितेन तीर्थकृता वधकान्तः ' प्रज्ञप्तः' प्ररूपितः, तद्यथा नाम वधकः कश्चित्स्यादिति, कुतश्चिन्निमितात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासी वधकस्तं विशेषेण दर्शयितुमाह'गाहावइस्स वे' त्यादि, गृहस्य पतिर्गृहपतिस्तत्पुत्रो वा अनेन सामान्यतः प्राकृत्तपुरुषोऽभिहितः, तस्योपरि कुतश्चिन्निमित्ताद्वधकः कश्चित्संवृत्तः, स च वधपरिणाम- परिणतोऽपि कस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति । ३९५ तथा राज्ञस्तत्पुत्रस्यवोपरि कुपित एतत्कुर्यादित्याह 'खणं निद्दाय' इत्यादि, क्षणम्-अवसरं 'निद्दाय'त्ति प्राप्य लब्ध्व वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्अवसरं छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वापरकार्यक्षणे सति तथावध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कञ्चिकालमुदास्ते, सच तत्रैौदासीन्यं कुर्वाणोऽपरकार्यं प्रति व्यग्रचेताः संस्तस्मिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति । स चैवंभूतोऽपि यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुभैर्योगैरेकेन्द्रियविकलेन्द्रियादयोऽस्पष्टविज्ञाना अपि मिध्यात्वाविरतिप्रमादकषाययोगानुगतत्वाप्राणातिपातादिदोषवन्तो भवन्तीति, नच तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया चत्वारो भङ्गाः, तद्यथा वध्यस्थानवसरो १ वधकस्य च २ उभयोर्वाऽनवसरो ३ द्वयोरप्यवसर इति ४ । नागार्जुनीयास्तु पठन्ति 'अप्पण्णो' अक्खणयाए तस्स वा पुरिसस्स छिद्दं अलभमाणे नो वहेइ, तं जया मे खगो भविस्सइ तस्स पुरिसस्स छिद्दं लभिस्सामि तया मे स पुरिसे अवस्सं वहेयव्वे भविस्सइ, एवं मनो पहारेमाणे 'त्ति सूत्रं, निगदसिद्धम् । साम्प्रतमाचार्य एव स्वाभिप्रेतमर्थं परप्रश्नपूर्वकमाविर्भावयन्त्राह' से किं नु हु' इत्यादि, आचार्य स्वतो हि निर्णीतार्थोऽसूयया परं पृच्छति किमिति परप्रश्ने, नुरिति वितर्के हुशब्दो वाक्यालङ्कारे, किमसी वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं 'प्रधारयन्' पर्यालोचयन्नहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य' गृहपते राज्ञो वा वध्यस्यामित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोस्वन्नेति ?, एवं पृष्टः परः समतया माध्यस्थ्यमवलम्बमानो यथावस्थितमेव व्यागृणीयात्, तद्यथा - हन्ताचार्य ! भवत्यसावमित्रभूत इतीत्यादि । तदेवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं दर्शयितुमाह-यथाऽसौ बधक इत्यादिना दृष्टान्तमनूद्य दार्शन्तिकमर्थं दर्शयितुमाह'एवमेवे 'त्यादि, एवमेवेति यथासौ वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि वालवद्बालोऽस्पष्टविज्ञानो भवत्येव, निवृत्तेरभावा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy