________________
श्रुतस्कन्धः -२, अध्ययनं-४,
३९७ तदेवं प्रतिज्ञाहेतुष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदाधुना प्रतिज्ञाहेत्वोः पुनर्वचनं निगमनमित्येतत्प्रतिपादयितुमाह-जहा से वहए तस्स वा गाहावइस्स इत्यादियावन्निचं पसढविउवायचित्तदंडे'त्ति, एतानिचप्रतिज्ञाहेतुष्टिान्तोपनयनिगमनान्यर्थतः सूत्रैःप्रदर्शितानि, प्रयोगस्त्वेवंद्रष्टव्यः-तत्ताप्रतिहतप्रत्याख्यातक्रिय आत्मापानानुबन्धीतिप्रतिज्ञा, सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डत्वादिति हेतुः, स्वपरावसरापेक्षितया कदाचिदव्यापादयन्नपि राजादिवधकवदिति दृष्टान्तः, यथाऽसौ वधपरिणामादनिवृत्तत्वा द्वध्यस्यामित्रभूतस्तथाऽऽत्साऽपि विरतेरभावात्सर्वेष्वपि सत्त्वेषु नित्यं प्रशठव्यतिपातचित्तदण्ड इत्युपनयः, यत एवं तस्मात्पापानुबन्धीति निगमनम्।
__एवं मृषावादादिष्वपिपञ्चावयवत्वंयोजनीयमिति, केवलंमृषावादादिशब्दोच्चारणं विधेयं, तच्चानेन विधिना नित्यं प्रशठमिथ्यावादचित्तदण्डत्वात् तथा नित्यं प्रशठदत्तादानचित्तदण्डवादित्यादि । तदेवं सर्वात्मना षट्स्वपि जीवनिकायेषु प्रत्येकममित्रभूततया पापानुबन्धित्वे प्रतिपादिते परो व्यभिचारं दर्शयन्नाह
मू. (७०२) नो इणढे समढे इह खलु बहवे पाणा० जे इमेणं सरीरसमुस्सएणं नो दिट्ठा वा सुया वा नाभिमया वा विनाया वा जेसिं नो पत्तेयं पत्तेयं चित्तसमायाए दिया वाराओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविउवायचित्तदंडे तं० पाणातिवाए जाव मिच्छादसणसल्ले।
वृ. नायमर्थ समर्थः इति-प्रतिपत्तुं योग्यः, तद्यथा-सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूताइति, तत्रपरः स्वपक्षसिद्धयेसर्वेषांप्रत्येकममिन्त्राभावंदर्शयितुंकारणमाह-'इह' अस्मिंश्चतुर्दशरज्ज्वात्मके लोकेबहवोऽनन्ताः प्राणिनः सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, यद्येवंततः किमित्याह तेच देशकालस्वभावविप्रकृष्टास्तथाभूता बहवः सन्ति ये प्राणिनः सूक्ष्मविप्रकृष्टाद्यवस्थाः 'अमुना शरीरसमुच्छ्रयेणे' त्यनेनेदमाह ।
प्रत्यक्षासनवाचित्वादिदमोऽनेनाग्दिर्शिज्ञानसमन्वितसमुच्छ्रयेण न कदाचिष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता-इष्टा न च विज्ञाताः प्रातिभेन स्वयमेवेत्यतः कथं तद्विषयस्तस्यामित्रभावः स्यात् ?, अतस्तेषां कदाचिदप्यविज्ञातानां कथं प्रत्येकं वधं प्रति चित्तसमादानं भवति, नचासौ तान्प्रति नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति, शेषंसुगमम्, एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते। .
मू. (७०३) आचार्य आह-तत्थ खलु भगवया दुवे दिट्ठता पन्नता, तं०-सन्त्रिदिट्टते य असन्निदिलुते य, से किंतं सन्निदिट्टते?,जे इमे सन्निपंचिंदिया पजत्तगाएतेसिणंछजीवनिकाए पडुचतं०-पुढवीकार्य जावतसकायं, से एगइओ पुढवीकारणं किञ्चं करेइवि कारवेइवि, तस्स णं एवं भवइ।
एवंखलु अहं पुढवीकारणं किचं करेमिवि कारवेमिवि, नोचेवणं से एवं भवइ इमेण वा इमेण वा, से एतेणं पुढवीकारणं किचं करेइवि कारवेइवि से गं तातो पुढवीकायाओ असंजयअविरयअप्पडिहयपञ्चखायपावकम्मेयावि भवइ, एवंजावतसकाएतिभाणियध्वं, से एगइओ छजीवनिकाएहिं किच्चं करेइविकारवेइवि, तस्स णं एवं भवइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org