________________
२०४
सूत्रकृताङ्ग सूत्रम् १/१०/-/१७५
मुपपद्यत इति भावः, तथा विचिकित्सा - चित्तविप्लुतिर्विद्वज्जुगुप्सा वा तां 'तीर्णः ' -अतिक्रान्तः 'तदेव च निशङ्कं यज्जिनैः प्रवेदित' मित्येवं निशङ्कतया न क्वचिच्चित्तविप्लुतिं विधत्त इत्यनेन दर्शनसमाधिः प्रतिपादितो भवति ।
येन केनचित्प्रासुकाहारोपकरणादिगतेन विधिनाऽऽत्मानं यापयति- पालयतीति लाढः, स एवम्भूतः संयमानुष्ठानं 'चरेद्' अनुतिष्ठेत्, तथा प्रजायन्त इति प्रजाः पृथिव्यादयो जन्तवस्तास्वात्मतुल्यः, आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः, एवम्भूत एव भावसाधुर्भवतीति, तथा चोक्तम्"जह मम न पियं दुक्खं, जाणिय एमेव सव्वजीवाणं । न हाइ न हणावेइ य, सममणई तेण सो समणो ॥
॥१॥
यथा च ममाऽऽक्रुश्यमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते एवमन्येषामपीत्येवं मत्वा प्रजास्वात्मसमो भवति, तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी वा 'आय' कर्माश्रवलक्षणं न कुर्यात्, तथा 'चयम्' उपचयमाहारोपकरणादेर्धनधान्यद्विपदचतुष्प- दादेर्वा परिग्रहलक्षणं संचयमायत्यर्थं सुष्ठु तपस्वी सुतपस्वी - विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यादिति
मू. (४७६) सव्विंदियाभिनिव्वुडे पयासु, चरे मुनी सव्वतो विप्पमुक्के । पासाहि पाणे य पुढोवि सत्ते, दुक्खेण अट्टे परितप्पमाणे ॥
घृ. किञ्चान्यत्- सर्वाणि च तानि इन्द्रियाणि च स्पर्शनादीनि तैरभिनिर्वृतः संवृतेन्द्रियो जितेन्द्रिय इत्यर्थः, क्व ? - 'प्रजासु' स्त्रीषु तासु हि पञ्चप्रकारा अपि शब्दादयो विषया विद्यन्ते, तथा चोक्तम्
॥ १ ॥ “कलानि वाक्यानि विलासिनीनां गतानि रम्याण्यवलोकितानि । रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि ॥
तदेवं स्त्रीषु पञ्चेन्द्रियविषयसम्भवात्तद्विषये संवृतसर्वेन्द्रियेण भाव्यम्, एतदेव दर्शयति'चरेत्' संयमानुष्ठानमनुतिष्ठेत् 'मुनि' साधुः 'सर्वतः' सबाह्याभ्यन्तरात् सङ्गाद्विशेषण प्रमुक्तो विप्रमुक्तो सिङ्गो मुनि निष्किञ्चनश्चेत्यर्थः, स एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् 'पश्य' अवलोकय पृथक पृथक् पृथिव्यादिषु कायेषु सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदभिन्नान् 'सत्त्वान्' प्राणिनः अपिशब्दाद्वनस्पतिकाये साधारणशरीरिणोऽनन्तानप्येकत्वमागतान् पश्य, किंभूतान् ? -दुःखेन असातावेदनीयोदयरूपेण दुःखयतीति वा दुःखम्-अष्टप्रकारं कर्म तेनार्त्तान्पीडितान् परि-समन्तासंसारकटाहोदरे स्वकृतेनेन्धनेन परिपच्यमानान्' क्वाथ्यमानान् यदिवा-दुष्प्रणिहितेन्द्रियानार्तध्यानोपगतान्मनोवाक्कायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति ।। अपिचभू. (४७७) एतेसु बाल य पकुव्यमाणे, आवट्टती कम्मसु पावएसु । अतिवायतो कीरति पावकम्मं, निउजमाणे उ करेइ कम्पं ॥
वृ. 'एतेषु' प्राङ्निर्दिष्टेषु प्रत्येकसाधारणप्रकारेषूपतापक्रियया बालवत् 'बालः' अज्ञश्चशब्दादितरोऽपि सङ्घट्टनपरितापनापद्रावणादिकेनानुष्ठानेन 'पापानि' कर्माणि प्रकर्षेण कुर्वाणस्तेषु च पापेषु कर्मसु सत्सु एतेषु वा पृथिव्यादिजन्तुषु गतः संस्तेनैव संघट्टनादिना प्रकारेणानन्तशः 'आवर्त्यते' पीड्यते दुःखभाग्भवतीति पाठान्तरं वा 'एवं तु बाले' एवमित्युपप्रदर्शने यथा चौरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org