________________
सूत्रकृताङ्ग सूत्रम् २/५/-/७२२
वृ. वेदना-कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्येते इत्येवं नो संज्ञां निवेशयत् । तदभावं प्रत्याशङ्काकारणमिदं, तद्यथा- पल्योपमसागरोपमशतानुभवनीयं कर्मान्तर्मुहूर्तेनैव क्षयमुपयातीत्यभ्युपगमात्, तदुक्तम्
॥१॥
"जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । नाणी तिहि गुत्तो खवे ऊसासमित्तेणं ॥
४१२
इत्यादि, तथा क्षपकश्रेण्यां च झटित्येव कर्मणो भस्मीकरणाद्यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावः तदभावाच्च निर्जराया अपीत्येवं नो संज्ञां निवेशयेत् । किमिति ?, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयोदीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा- 'पुव्विं दुचिण्णाणं दुष्पडिकंताणं कम्माणं वेइत्ता मोक्खो, नत्थि अवेइत्ता' इत्यादि, वेदनासिद्धौ च निर्जराऽपि सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति ।
मू. (७२३)
नत्थि किरिया अकिरिया वा, नेवं सन्नं निवेसए । अत्थि किरिया अकिरिया वा, एवं सन्नं निवेस ॥
वृ. वेदनानिर्जरे च क्रियाऽक्रियायत्ते, ततस्तत्सद्भावं प्रतिषेधनिषेधपूर्वकं दर्शयितुमाहक्रिया-परिस्पन्दलक्षणा तद्विपर्यस्ता त्वक्रिया, ते द्वे अपि 'न स्तो' न विद्येते, तथाहि - सांख्यानां सर्वव्यापित्वादात्मन आकाशस्येव परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानां तु क्षणिकत्वात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्तैव, न तद्व्यतिरिक्ता काचित्क्रियाऽस्ति, तथा चोक्तम्- "भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते" इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियत्वमतोऽक्रिया न विद्यते इत्येवं संज्ञां नो निवेशयेत्, किं तर्हि ?, अस्ति क्रिया अक्रिया चेत्येवं संज्ञां निवेशयेत्
तथाहि शरीरात्मनोर्देशाद्देशान्तरावाप्तिनिमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियत्वे चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षाद्यभावः, स च दृष्टेष्टबाधितः, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं क्रियाया अभावः ? अपि च-एकान्तेन क्रियाऽभावेसंसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं संज्ञांनिवेशयेदिति तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतद्दर्शयितुमाहभू. (७२४) नत्थि कोहे व माणे वा, नेवं सन्नं निवेसए ।
-
अत्थि कोहे व माणे वा, एवं सन्नं निवेसए ।
वृ. स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, च चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्चलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथैतावद्भेद एव मानो गर्व, एतौ द्वावपि 'न स्तो' न विद्येते, तथाहि - क्रोधः केषांचिन्मतेन मानांश एव अभिमानग्रहगृहीतस्य तत्कृतावत्यन्तक्रोधोदयदर्शनात्, क्षपक श्रेण्यां च भेदेन क्षपणानभ्युपगमात्, तथा किमयमातन्धर्म आहोस्वित्कर्मण उतान्यस्येति तत्रात्मधर्मत्त्वे सिद्धानामपि क्रोधोदयप्रसङ्गः, अथ कर्मणस्ततस्तदन्यकषायोदयेऽपि तदुदय-प्रसङ्गात् मूर्तत्वाच्च कर्मणो घटस्येव तदाकारोपलब्धिः स्याद्, अन्यधर्मत्वे त्वकिञ्चित्करत्वमतो नास्ति क्रोध इत्येवं मानाभावोऽपि वाच्य इत्येवं संज्ञां नो निवेशयेत् ।
यतः कषायकर्मोदयवर्ती दष्टष्ठः कृतभ्रुकुटीभङ्गो रक्तवदनो गलत्स्वेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते, न चासौ मानांशः, तत्कार्याकरणात् तथा परनिमित्तोत्थापितत्वाच्चेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org