________________
श्रुतस्कन्धः - २, अध्ययनं - ५.
तथा जीवकर्मणोरुभयोरप्ययं धर्म, तद्धर्मत्वे च प्रत्येकविकल्पदोषानुपपत्ति, अनभ्युपगमात्, संसार्यात्मनां कर्मणा सार्द्धं पृथग्भवनाभावत्तदुभयस्य च नरसिंहवद्वस्त्वन्तरत्वादित्यतोऽस्ति क्रोधो मानश्चेत्येवं संज्ञां निवेशयेत् । भू. (७२५)
नत्थि माया व लोभे वा, नेवं सन्नं निवेसए । अत्थि माया व लोभे वा, एवं सन्नं निवेसए ।
वृ. साम्प्रतं मायालो भयोरस्तित्वं दर्शयितुमाह-अत्रापि प्राग्वन्मायालो भयोरभाववादिनं निराकृत्यास्तिवं प्रतिपादनीयमिति । मू. (७२६)
नत्थि पेज्जे व दोसे वा, नेवं सन्नं निवेसए । अत्थि पेज्जे व दोसे वा, एवं सन्नं निवेसए ॥
वृ. साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयन्नाह - प्रीतिलक्षणं प्रेमपुत्रकलत्रधनधान्याद्यात्मीयेषु रागस्तद्विपरीतस्त्वात्मीयोपधातकारिणि द्वेषः, तावेतौ द्वावपि न विद्येते, तथाहि केषाञ्चिदभिप्रायो यदुत मायालोभावेवावयवौ विद्येते, न तत्समुदायरूपो रागोऽवयव्यस्ति, तथा क्रोधमानावेव स्तः, न तत्समुदायरूपोऽवयवी द्वेष इति ।
४१३
तथाहि अवयवेभ्यो यद्यभिन्नोऽवयवी तर्हि तदभेदात्त एव नासौ अथ भिन्नः पृथगुपलम्भः स्यादू घटपटवदित्येवमसद्विकल्पमूढतया नो संज्ञां निवेशयेत्, यतोऽवयवावयविनोः कथञ्चिद्भेद इत्येवं भेदाभेदाख्यतृतीयपक्षसमाश्रयणात्प्रत्येकपक्षाश्रितदोषानुपपत्तिरिति, एवं चास्ति प्रितिलक्षणं प्रेमाप्रीतिलक्षणश्च द्वेष इत्येवं संज्ञां निवेशयेत् ।
साम्प्रतं कषायसद्भावे सिद्धे सति तत्कार्यभूतोऽवश्यंभावी संसारसद्भाव इत्येतप्रतिषेधनिषेधद्वारेण प्रतिपादयितुमाहमू. (७२७)
नत्थि चाउरंते संसारे, नेवं सन्नं निवेसए । अत्थि चाउरंते संसारे, एवं सन्नं निवेसए ।
बृ. चत्वारोऽन्ता - गतिभेदा नरकतिर्यङनरामरलक्षणा यस्य संसारस्यासौ चतुरन्तः संसार एव कान्तारो भयैकहेतुत्वात्, स च चतुर्विधोऽपि न विद्यते, अपितु सर्वेषां संसृतिरूपत्वात्कर्मबन्धात्मकतया च दुःखैकहेतुत्वादेकविध एव, अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यङ्गनुष्ययोरेव सुख दुःखोत्कर्षतया तद्वयवस्थानाद् द्विविधः संसारः, पर्यायनयाश्रयणात्त्वनेकविधः, अतश्चातुर्विध्यं न कथञ्चिद् घटत इत्येवं संज्ञां नो निवेशयेद्, अपितु अस्ति चतुरन्तः संसार इत्येवं संज्ञां निवेशयेत् ।
यत्तूक्तम्-एकविधः संसारः, तन्नोपपद्यते, यतोऽध्यक्षेण तिर्यङ्गनुष्ययोर्भेदः समुपलभ्यते, न चासावेकविधत्वे संसारस्य घटते, तथा संभवानुमानेन नारकदेवानमप्यस्तित्वाभ्युपगमाद् द्वैविध्यमपि न विद्यते, संभवानुमानं तु सन्ति पुण्यपापयोः प्रकृष्टफलमुजः, तन्मध्यफलभुजां तिर्यङनुष्याणां दर्शनाद्, अतः संभाव्यन्ते प्रकृष्टफलभुजो, ज्योतिषां प्रत्यक्षेणैव दर्शनाद्, अथ तद्विमानानामुपलम्भः, एवमपि तदधिष्ठातृभिः कैश्चिद्भवितव्यमित्यनुमानेन गम्यन्ते, ग्रहगृहीतवरप्रदानादिना च तद्स्तित्वानुमिति, तदस्तित्वे तु प्रकृष्टपुण्यफलभुज इव प्रकृष्टपाप- फलमुग्भिरपि भाव्यमित्यतोऽस्ति चातुर्विध्यं संसारस्य, पर्यायनयाश्रयणे तु यदनेकविधत्वमुच्यते तदयुक्तं । यतः सप्तपृथिव्याश्रिता अपि नारकाः समानजातीयाश्रयणादेकप्रकारा एव, तथा तिर्यञ्चोऽपि पृथिव्यादयः स्थावरास्तथा द्वित्रिचतुःपञ्चेन्द्रियाश्चद्विषष्टियोनिलक्षप्रमाणाः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org