SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः -२, अध्ययनं-५, ४११ तदभावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽस्तीत्येवं च संज्ञां निवेशयेदिति ।। बन्धसद्भावेचावश्यंभावी पुण्यपापसदभाव इत्यतस्तभावं निषेधद्वारेणाहमू. (७२०) नथि पुण्णे व पावे वा, नेवं सन्नं निवेसए। अस्थि पुण्णे व पावे या, एवं सन्नं निवेसए। वृ. 'नास्ति' न विद्यते 'पुण्यं शुभकर्मप्रकृतिलक्षणं तथा पापं तद्विपर्ययलक्षणं'नास्ति' न विद्यते इत्येवं संज्ञांनो निवेशयेत् । तदभावप्रतिपत्तिनिबन्धनं त्विदं-तत्र केषाञ्चिन्नास्ति पुण्यं, पापमेव ह्युत्कर्षावस्थं सत्सुखदुःखनिबन्धनं, तथा परेषां पापं नास्ति, पुण्यमेव ह्यपचीयमानं पापकार्यं कुर्यादिति, अन्येषांतूमयमपिनास्ति, संसारवैचित्र्यंतु नियतिस्वभावादिकृतं, तदेतदयुक्तं, यतः पुण्यपाप शब्दौ सम्बन्धितशब्दौ सम्बन्धिशब्दानामेकांशस्य सत्ताऽपरसत्तानान्तरीयका अतो नैकतरस्य सत्तेति, नाप्युभयाभावः शक्यते वक्तुं निर्निबन्धनस्य जगद्वैचित्रस्याभावात्, न हि कारणमन्तरेण क्वचित्कार्यस्योत्पत्तिईष्टा, नियतिस्वभावादिवादस्तु नष्टोत्तराणां पादप्रसारिकाप्रायः, अपि च-तद्वादेऽभ्युपगम्यमाने सकलक्रियावैयर्थ्यं तत एव सकलकार्योत्पत्तैरित्यतोऽस्ति पुण्यं पापं चेत्येवं संज्ञां निवेशयेत् । पुण्यपापे चैवंरूपे, तद्यथा॥१॥ "पुद्गलकर्म शुभं यत्तत्पुण्यमिति जिनशासने हष्टम। यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम्॥ मू. (७२१) नथि आसवे संवरे वा, नेवं सन्नं निवेसए। अस्थि आसवे संवरे वा, एवं सन्नं निवेसए। वृनकारणमन्तरेण कार्यस्योत्पत्तिरतः पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसंवरी तत्प्रतिषेधनिषेधद्वारेण दर्शयितुकाम आह-आश्रवति-प्रविशति कर्म येन सप्राणातिपातादिरूप आश्रवः-कर्मोपादानकारणं, तथा तन्निरोधःसंवरः, एतौ द्वावपिनस्तइत्येवं संज्ञांनोनिवेशयेत्, तद भावप्रतिपत्याशङ्काकारणंत्विदं-कायवाझ्नःकर्मयोगः,सआश्रव इति, यथेदमुक्तं तथेदमप्युक्तमेव-'उञ्चालियंमिपाए' इत्यादि, ततश्च कायादिव्यापारेणकर्मबन्धो न भवतीति, युक्तिरपिकिमयमाश्रव आत्मनो भिन्न उताभिन्नः? ____ यदि भिन्त्रोनासावाश्रवो घटादिवद्, अभेदेऽपिनाश्रवत्वं, सिद्धात्मनामपिआश्रवप्रसङ्गात, तदभावे च तन्निरोधलक्षणस्य संवरस्याप्यभावः सिद्ध एवेत्येवमात्मकमध्यवसायं न कुर्यात् । यतोयत्तदनैकान्तिकत्वं कायव्यापारस्य 'उच्चालयंमिपाए'इत्यादिनोक्तं तदस्माकमि संमतमेव, यतो नह्यस्माभिरप्युपयुक्तस्य कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस्य त्वस्त्येव कर्मबन्धः, तथा भेदाभेदोभयपक्षसमाश्रयणात्तदेकपक्षाश्रितदोषाभाव इत्यस्त्याश्रवसद्भावः, तन्निरोधश्च संवर इति, उक्तंच॥१॥ "योगः शुद्धः पुण्याश्रवस्तु पापस्य तद्विपर्यासः । वाक्कायमनोगुप्तिनिराश्रवः संवरस्तूक्तः ॥ इत्यतोऽस्त्याश्रवस्तथा संवरश्चेत्येवं संज्ञां निवेशयेदिति। आश्रवसंवरसद्भावेचावश्यंभावी वेदनानिर्जरासद्भावइत्यतस्तंप्रतिषेधनिषेधद्वारेणाहमू. (७२२) नस्थि वेयणा निजरा वा, वं सन्न निवेसए। अस्थि वेयणा निजरा वा, एवं सन्नं निवेसए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy