________________
३१४
सूत्रकृताङ्गसूत्रम् २/9/-/६४४
नानापन्ना नानाछंदा नानासीला नानादिट्ठी नानारूई नानारंभा नानाअज्झवसाणसंजुत्ता पहीणपुव्वसंजोगाआरियंमग्गं असंपत्ताइतिते नोहव्वाएनो पाराए अंतराकामभोगेसुविसण्णा
पृ.अथतृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुषएवपुरुषजातोनियतिवादिक आख्यायतेप्रतिपाद्यते, सचैवमाह-नात्र कश्चित्कालेश्वरादिकः कारणंनापिपुरुषकारः,समानक्रियाणामपि कस्यचिदेव नियतिबलादर्थसिद्धेः, अतो नियतिरेव कारणम्, उक्तंच॥१॥ प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा ।
भूतानां महति कृतेऽपि हि प्रयले, नाभाव्यं भवति न भाविनोऽस्ति नाशः ।।
इत्यादि ।। 'इह खलुपाईणं इत्यादिको ग्रन्थः प्रागवन्नेतव्योयावदेष धर्मो-नियतिवादरूपः स्वाख्यातः सुप्रज्ञप्तो भवतीति ।। स च नियतिवादी स्वाभ्युपगमं दर्शयितुमाह-'इह खलु दुवे पुरिसा भवंती'त्यादि, ‘इह' अस्मिन् जगति खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषौ भवतः, तत्रैकः क्रियामाख्याति, क्रियाहिदेशाद्देशान्तरावाप्तिलक्षणापुरुषस्य भवति, नकालेश्वरादिनाचोदितस्य भवति, अपितु नियतिप्रेरितस्य, एवमक्रियाऽपि । यदि तावस्वतन्त्रौ क्रियावादमक्रियावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वातुल्यौ, यदिपुनस्तौ स्वतन्त्री भवतस्ततः क्रियाऽक्रियाभेदान्न तुल्यौस्यातामिति, अतएकार्थावेककारणापन्नत्वादिति, नियतिवशेनैव तौ नियतिदमनियतिवादं चाश्रिताविति भावः । उपलक्षणार्थत्वाचास्यान्योऽपि यः कश्चित्कालेश्वरादिपक्षान्तरमाश्रयति सोऽपि नियतिचोदित एव द्रष्टव्य इति।
साम्प्रतं नियतिवादी परतोद्विभावयिषयाऽऽह-'बालः' अज्ञः पुरुषकारकालेश्वरचादीत्यादिकः, पुनरितिविशेषणार्थः, तदेवदर्शयति-'एव' मिति वक्ष्यमाणनीत्या विप्रतिवेदयति' जानीते कारणमापन्नः सुखदुःखयोः सुकृतदुष्कृतयोर्वा स्वकृत एव पुरुषकारः कालेश्वरादिर्वा कारणमित्येवमभ्युपपन्नो नान्यन्नियत्यादिकं कारणमस्तीति, तदेवाह-तद्यथा-योऽहमस्मि 'दुक्खामि'त्तिशारीरंदुःखमनुभवामितथाशोचामि-इष्टानिष्टवियोगसंप्रयोगकृतंशोकमनुभवामि, तथा 'तिप्पामित्ति शारीरबलं क्षरामि,तथा पीडामितिसबाह्याभ्यन्तरयापीडयापीडामनुभवामि, तथा परितप्पामित्ति परितापमनुभवामि,तथा जूरामित्तिअनार्यकर्मणिप्रवृत्तमात्मानं गह मि, अनर्थावाप्तौ विसूरयामीत्यर्थः, तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्ष, परपीड्या कृतवानस्मीत्यर्थः, तथा परोऽपि यदुखशोकादिकमनुभवति मयि वाऽऽपादयति तत्स्वयमेव कृतमिति, तदेवदर्शयति-'परोवे त्यादि, तथा परोऽपि यन्मांदुःखयति शोचयतीत्यादिप्राग्वेन्नेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोऽज्ञो वा बाल एवं विप्रतिवेदयति' जानीते स्वकारणं वा परकारणं वा सर्वं दुःखादि पुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन इति।
तदेवंनियतिवादीपुरुषकारकारणवादिनो बालत्वमापाद्यस्वमतमाह-मेधा मर्यादा प्रज्ञा वातद्वान् मेघावी-नियतिवादपक्षाश्रयी एवं विप्रतिवेदयति-जानीते, कारणमापन इति नियतिरेव कारणं सुखाद्यानुभवस्य, तद्यथा-योऽहमस्मि दुःखयामि शोचयामि तथा 'तिप्पामित्ति क्षरामि 'पीडामिति पीडामनुभवामि परितप्पामित्तिपरितापमनुभवामि, नाहमेवमकार्ष दुःखम्, अपि तु नियतित एवैतन्मय्यागतं, न पुरुषकारादिकृतं, यतो न हि कस्यचिदात्माऽनिष्टो येनानिष्टा दुःखोत्पादादिकाः क्रियाः समारभते, नियत्यैवासावनिच्छन्नपितत्कार्यतयेनदुःखपरम्पराभाग्भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org