________________
श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - १
.
॥२॥ अच्छेद्योऽयभेद्योऽयमविकार्योऽयमुच्यते ।
नित्यः सततगः स्थाणुरचलोऽयं सनातनः ।। एवं च कृत्वा नासत्पद्यते, सर्वस्य सर्वत्र सद्भावाद असति च कारकव्यापारभावात सत्कार्यवादः, यदि च असदुत्पद्येत खरविषाणादेरप्युत्पत्तिस्यादिति, तथा चोक्तम् - ॥१॥ असदकरणादुपादानग्रहणात्सर्वसंभवाभावात्।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥ एवं च कृत्वा मृत्पिण्डेऽपि घटोऽस्ति, तदर्थिनां मृत्पिण्डोपादानात्, यदि चासदुत्पद्येत ततो यतः कुतश्चिदेव स्यात्, नावश्यमेतदर्थिना मृत्पिण्डोपादानमेव क्रियेत इति, अतः सदेव कारणे कार्यमुत्पद्यत इति । एवं च कृत्वा सर्वेऽपि भावाः पृथिव्यादय आत्मषष्ठाः 'नियतिभावं' नित्यत्वमागता नाभावरूपतामभूत्वा च भावरूपतां प्रतिपद्यन्ते, आविर्भावतिरोभावमात्रत्वादुत्पत्तिविनाशयोरिति, तथा चाभिहितम् -
"नासतो जायते भावो, नाभावो जायते सतः" इत्यादि, अस्योत्तरं नियुक्तिकृदाह-'को वेएई'त्यादिप्राक्तन्येव गाथा, सर्वपदार्धनित्यत्वाभ्युपगमेकर्तृत्वपरिणामोन स्यात्, ततश्चात्मनोऽकर्तृत्वेकर्मबन्धाभावस्तदभावाच्च को वेदयति?, न कश्चित्सुखदुःखादिकमनुभवतीत्यर्थ एवं सति कृतनाशः स्यात्, तथा असतश्चोत्पादाभावेयेयमात्मनः पूर्वभवपरित्यागेनापरभवोत्पत्तिलक्षणा पञ्चधा गतिरुच्यते सा न स्यात्, ततश्च मोक्षगतेरभावाद्दीक्षादिक्रियाऽनुष्ठानमनर्थकमापद्येत, तथाऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिस्मरणादिकं च न प्राप्नोति, यच्चोक्तं 'सदेवोत्पद्यते तदप्यसत्, यतो यदि सर्वथा सदेव कथमुत्पादः ?, उत्पादश्चेत्न तर्हि सर्वदा सदिति, तथा चोक्तम् । ॥१॥ “कर्मगुणव्यपदेशाः प्रागुत्पत्तेर्न सन्ति यत्तस्मात् ।
कार्यमसद्विज्ञेयं क्रियाप्रवृत्तेश्च कर्तृणाम् ॥ तस्मात्सर्वपदार्थानां कथञ्चिन्नित्यत्वं कथञ्चिदनित्यत्वं सदसत्कार्यवादश्चेत्यवधार्य, तथा चामिहितम् - ॥१॥ “सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः ।
सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।। (इति) ॥१॥ तथा “नान्वयः स हि भेदत्वान्न भेदोऽन्वयवृत्तितः।
__ मृदभेदद्वयसंसर्गवृत्तिर्जात्यन्तरं घटः ।। साम्प्रतं बौद्धमतै पूर्वपक्षयन्नियुक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावयन्नाहमू. (१७) पंच खंधे वयंतेगे, बाला उ खणजोइणो।
___अन्नो अनन्नो नेवाहु, हेउयं च अहेउयं ।। वृ 'एके केचन वादिनोबौद्धाः पञ्च स्कन्धान्वदन्ति' रूपवेदनाविज्ञानसंज्ञासंस्काराख्याः पञ्चैव स्कन्धा विद्यन्ते नापरः कश्चिदात्माख्यः स्कंधोऽस्तीत्येवं प्रतिपादयन्ति, तत्र रूपस्कन्धः पृथिवीधात्वादयो रूपादयश्च १ सुखा दुःखा अदुःखसुखाचेति वेदना वेदनास्कन्धः २ रूपविज्ञानं रसविज्ञानमित्यादि विज्ञानं विज्ञानस्कन्धः ३ संज्ञास्कन्धः संज्ञानिमित्तोद्राहणात्मकः प्रत्ययः ४ संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति ५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org