________________
श्रुतस्कन्धः-१, अध्ययनं ३, उद्देशकः - ३
१०५
वृ. अपिच रागश्च प्रीतिलक्षणो द्वेषश्च तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषां परतीर्थिका-नांतेतथा, 'मिथ्यात्वेन' विपर्यस्तावबोधेनातत्त्वाध्यवसायरूपेण अभिद्रुता' व्याप्ताः सधुक्तिभिवदिं कर्तुमसमर्था क्रोधानुगा 'आक्रोशान्' असभ्यवचनरूपांस्था दण्डमुष्टयादिमिश्च हननव्यापारं यान्ति' आश्रयन्ते । अस्मिन्नेवार्थे प्रतिपाद्ये दृष्टान्तमाह-यथा 'टऋणा' म्लेच्छविशेषा दुर्जया यदा परेण बलिना स्वानीकादिनाऽभिद्रूयन्तेतदातेनानाविधैरप्यायुधैर्योद्धुमसमर्था सन्तः पर्वतं शरणमाश्र-यन्ति, एवं तेऽपि कुतीर्थिका वादपराजिताः क्रोधाद्युपहतहष्टय आक्रोशादिकं शरणमाश्रयन्ते, न च ते इदमाकलय्य प्रत्याक्रोष्टव्याः, तद्यथा॥१॥ “अक्कोसहणणमारणधम्मब्भंसाण बालसुलभाणं ।
लाभं मन्नइ धीरो जहुत्तराणं अभाभि ।। किश्चान्यत्मू. (२२२) बहुगुणप्पगप्पाई, कुजा अत्तसमाहिए।
जेणऽन्ने नो विरुज्झेजा, तेण तं तं समायरे ।। वृ. 'बहवो गुणाः' स्वपक्षसिद्धिपरदोषोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्तेप्रादुर्भवन्त्यात्मनि येष्वनुष्ठानेषु तानि बहुगुणप्रकल्पानि-प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा 'कुर्यात्' विदध्यात्, स एव विशिष्यते-आत्मनः “समाधि' चित्तस्वास्थ्यं यस्य स भवत्यात्मसमाधिकः, एतदुक्तं भवति ।
येन येनोपन्यस्तेनहेतुदृष्टान्तादिना आत्मसमाधि-स्वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वापरानुपघातलक्षणः समुत्पद्यतेतत्तत्कुर्यादिति, तथायेनानुष्ठितेन वाभाषितेन वा अन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो ‘न विरुध्येत' न विरोधं गच्छेत्, तेनपराविरोधकारणेन तत्तदविरुद्धनुष्ठानं वचनं वा 'समाचरेत्' कुर्यादिति । मू. (२२३) इमंच धम्ममादाय, कासवेण पवेइयं ।
कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए। वृ. तदेवं परमतं निराकृत्योपसंहारद्वारेण स्वमतस्थापनायाह-'इम' मिति वक्ष्यमाणं दुर्गतिधारणाद्धर्मम् ‘आदाय' उपादाय गृहीत्वा 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायांपर्षदि प्रकर्षेण-यथावस्थितार्थनिरूपणद्वारेण वेदितंप्रवेदितं, चशब्दात्परमतं च निराकृत्य, भिक्षणशीलो भिक्षु 'ग्लानस्य' अपटोरपरस्य भिक्षोर्वैयावृत्त्यादिकं कुर्यात्, कथं कुर्याद् ? एतदेव विशिनष्टि-स्वतोऽप्यग्लानतया यथाशक्ति 'समाहितः' समाधि प्राप्त इति, इदमुक्तं भवति-यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति मू. (२२४) संखाय पेसलं धम्म, दिढिमें परिनिव्वुडे ।
उवसग्गे नियामित्ता, आमोक्खाए परिव्यएजाऽसि । तिबेमि ।। वृ. किं कृत्वैतद्विधेयमिति दर्शयितुमाह-'संखाये' त्यादि, संख्याय-ज्ञात्वा कं ? - 'धर्म' सर्वज्ञप्रणीतं श्रुतचारित्राख्यभेदभिन्न पेशलम्' इति सुश्लिष्टं प्राणिनामहिंसादिप्रवृत्त्याप्रीतिकारणं, किम्भूतमिति दर्शयति-दर्शनं दृष्टि: सद्भूतपदार्थगता सम्यग्दर्शनमित्यर्थ सा विद्यते यस्यासौ ईष्टिमान् यथावस्थितपदार्थपरिच्छेदयानित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org