________________
१०४
सूत्रकृताङ्ग सूत्रम् १/३/३/२१९
वृ. येयमीद्दक्षा वाक् यथा यतिना ग्लानस्थानीय न देयमित्येषा अग्रे वेणुवद्-वंशवत् कर्षितातन्वी युक्त्यक्षमत्वात् दुर्बलेत्यर्थः, तामेव वाचम्दर्शयति-'गृहिणां' गृहस्थानां यदभ्याहृतं तधतेर्भोक्तुं श्रेयः' श्रेयस्कर, न तु भिक्षूणां सम्बन्धीति, अग्रे तनुत्वं चास्या वाच एवं द्रष्टव्यंयथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति, यतीनां तूद्गमादिदोषरहितमिति ।। मू. (२१९) धम्मपन्नवणा जा सा, सारंभा न विसोहिआ।
न उ एयाहिं दिट्ठीहिं, पुव्वमासिं पग्गप्पि। वृ. किञ्च-धर्मस्य प्रज्ञापना-देशना यथा-यतीनां दानादिनोपकर्तव्यमित्येवम्भूता या सा 'सारम्भाणां' गृहस्थानां विशोधिका, यतयस्तु स्वानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते-'न तु' नैवैताभिर्यथा गृहस्थेनैव पिण्डदाननादिना यतेग्लानाद्यवस्थायामुपकर्तव्यं नतुयतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः 'दृष्टिभिः' धर्मप्रज्ञापनाभि पूर्वम्' आदौ सर्वज्ञैः प्रकल्पितं' प्ररूपितंप्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुप्रायमर्थं प्ररूपयन्ति यथा-असंयतैरेषणाद्यनुपयुक्तैग्लानादेवैयावृत्त्यं विधेयं न तूपयुक्तेन संयतेनेति, अपिच-भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणादनुमोदनाच्च, ततो भवन्तस्तत्कारिण-स्तत्प्रद्वेषिणश्चेत्यापन्नमिति अपिचमू. (२२०) सव्वाहि अनुजुत्तीहिं, अचयंता जवित्तए।
ततो वायं निराकिचा, ते भुजोवि पगभिया।। वृ.तेगोशालकमतानुसारिणोदेगम्बरा वासर्वाभिरर्थानुगताभिर्युक्तिभिः सर्वैरेव हेतुद्दष्टान्तैः प्रमाण भूतैरशक्नुवन्तः स्वपक्षे आत्मानं 'यापयितुम्' संस्थापयितुम् 'ततः' तस्माधुक्तिभिः प्रतिपादयितुम् सामर्थ्याभावाद् ‘वाद निराकृत्य' सम्यग्हेतुभ्रष्टान्तर्यो वादो-जल्पस्तं परित्यज्य ते तीर्थका श्रूयः' पुनरपि वादपरित्यागे सत्यपि प्रगल्भिता' धृष्टतां गता इदमूचुः, तद्यथा॥१॥ “पुराणं मानवो धर्म, साङ्गो वेदश्चिकित्सितम्।
आज्ञासिद्धानिचत्वारि, न हन्तव्यानि हेतुभिः ।।" अन्यच्च किमनया बहिरङ्गया युक्ताऽनुमानादिकयाऽत्र धर्मपरीक्षणे विधेये कर्तव्यमस्ति, यतः प्रत्यक्ष एव बहुजनसंमतत्वेन राजाद्याश्रयणाच्चायमेवास्मदभिप्रेतो धर्म श्रेयान्नापर इत्येवं विवदन्ते, तेषामिदमुत्तरम्-न ह्यत्र ज्ञानादिसाररहितेन बहुनाऽपिप्रयोजनमस्तीति, उक्तं च॥१॥ “एरंडकट्टरासी जहा य गोसीसचंदनपलस्स।
मोल्ले न होज्ज सरिसो कित्तियमेत्तो गणिज्जतो।। ॥२॥ तहवि गणणातिरेगो जहरासी सोन चंदनसरिच्छो ।
तह निविण्णाणमहाजणोवि सोज्झे विसंवयति ।। एक्को सचक्खुगो जह अंधलयाणं सएहिं बहुएहि ।
__ होइ वरं दट्ठव्बो नहु ते बहुगा अपेच्छंता॥ ॥४॥ एवं बहुगावि मूढा न पमाणं जे गईन याणंति ।
संसारगमणगुविलं निउणस्स य बंधमोक्खस्स ॥ (इत्यादि) मू. (२२१) रागदोसाभिभूयप्पा, मिच्छत्तेण अभिहुता।
आउस्से सरणं जंति, टंकणा इव पव्वयं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org