SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं -३, उद्देशकः - ३ १०३ वयमपरिग्रह- तया निष्किञ्चना एवमभ्युपगमं कृत्वा यूयं भुङ्ग्ध्वं 'पात्रेषु' कांस्यपात्र्यादिषु गृहस्थभाजनेषु, तत्परिभोगाच्च तत्परिग्रहोऽवश्यंभावी, तथाऽऽहारादिषुमूर्छा कुरुध्वमित्यतः कथं निष्परिग्रहाभ्यु-पगमो भवतामकलङ्क इति, अन्यच्च ‘ग्लानस्य' भिक्षाटनं कर्तुमसमर्थस्य यदपरैर्गृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावाद्गृहस्थानयनेचयोदोषसद्भावः स भवतामव-श्यंभावीति, तमेव दर्शयति ___ यञ्च गृहस्थैर्वीजोदकाद्युपमर्दैनापादितमाहारं मुक्त्वातंग्लानमुद्दिश्योद्देशकादि यत्कृतं' यन्निष्पादितंतदवश्यं युष्मतपरिभोगायावतिष्ठते । तदेवं गृहस्थगृहे तद्भाजनादिषुभुञ्जानास्तथा ग्लानस्य च गृहस्थैरेव वैयायुवृत्त्यं कारयन्तो यूयमवश्यं बीजोदकादिभोजिन उद्देशिकादिकृतभोजिनश्रेति किश्चान्यत्मू. (२१६) लित्ता तिव्वाभितावेणं, उझिआ असमाहिया। नातिकंडूइयं सेयं, अरुयस्सावरज्झती ।। वृ.योऽयंषड्जीवनिकायविराधनयोद्दिष्टभोजित्वेनाभिगृहीतमिथ्याष्टितया च साधुपरभाषणेनच तीब्रोऽभितापः-कर्मबन्धरूपस्तेनोपलिप्ताः-संवेटितास्तथा 'उज्झिय'त्ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृहभोजितयोद्देसकादिभोजित्वात्तथा असमाहिता' शुभाध्यवसापरहिताः सत्साधुप्रद्वेषित्वात्, साम्प्रतं दृष्टान्तद्वारेण पुनरपि तदोषाभिधित्सयाऽऽह-यथा 'अरुषः' व्रणस्यातिकण्डूवितं-नखैर्विलेखनं न श्रेयो-न शोभनं भवति । अपि त्वपराध्यति-तत्कण्डूयनं व्रणस्य दोषमावहति, एवं भवन्तोऽपि सद्विवेकरहिताः वयं किल निष्किच्चना इत्येवं निष्परिग्रहतया षडजीवनिकायरक्षणभूतं भिक्षापात्रादिकमपि संयमोपकरणं परिहतवन्तः, तदभावाचावश्यंभावी अशुद्धाहारपरिभोग इत्येवं द्रव्यक्षेत्रकालभावानपेक्षणेन नातिकण्डूयितं श्रेयो भवतीति भावः ॥ मू. (२१७) तत्तेण अनुसिट्टा ते, अपडिन्नेण जाणया। नएस नियए मग्गे, असभिक्खा वती किती। वृ. अपि च-'तत्त्वेन' परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमता-नुसारिणआजीविकादयः बोटिका वा अनुशासिताः' तदभ्युपगमदोषदर्शनद्वारेण शिक्षा ग्राहिताः, केन ?-'अप्रतिज्ञेन' नास्य मयेदमसदपि समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञो-रागद्वेषरहितः साधुस्तेन जानता' हेयोपादेयपदार्थपरिच्छेदकेनेत्यर्थ, कथमनुशासिता इत्याह-योऽयं भवद्भिरभ्युपगतो मार्गो यथा यतीनां निष्किञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव इत्येष 'न नियतो' न निश्चितो न युक्तिसङ्गतः, अतो येयं वाग् यथा। ये पिण्डपातं ग्लानस्याऽऽनीय ददति ते गृहस्थकल्पा इत्येषा 'असमीक्ष्याभिहिता' अपर्यालोच्योक्ता, तथा कृतिः' करणमपि भवदीयमसमीक्षितमेव, यथा चापर्यालोचितकरणता भवति भवदनुष्ठानस्य तथा नातिकण्डूयितं श्रेय इत्यनेन प्राग्लेशतःप्रतिपादितं, पुनरपि सदृष्टान्तं तदेव प्रतिपादयति ।। यथाप्रतिज्ञातमाहमू. (२१८) एरिसा जा वई एसा, अग्गवेणु ब्व करिसिता। गिहिणो अभिहडं सेयं, भुंजिउं न उ भिक्खुणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy