________________
१०६
सूत्रकृताङ्ग सूत्रम् १/३/३/२२४ तथा परिनिर्वृतो रागद्वेषविरहाच्छान्तीभूतस्तदेवंधर्मपेशलं परिसंख्यायटिमान्परिनिर्वृत उपसर्गाननुकूलप्रतिकूलानियम्य-संयम्य सोढा, नोपसर्गरुपसर्गितोऽसमञ्जसं विदध्या-दित्येवम् 'आमोक्षाय' अशेषकर्मक्षयप्राप्तिं यावत्परि-समन्तात्व्रजेत्-संयमानुष्ठानोधुक्तो भवेत् परिव्रजेद्, इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् ।।
___अध्ययन-३ उद्देशकः-३ समाप्तः
-अध्ययन-३ उद्देशक:-४:वृ.उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूलप्रतिकूलोपसर्गा प्रतिपादिताः, तैश्च कदाचित्साधुः शीलात् प्रच्याव्येत-तस्य च स्खलित-शीलस्य प्रज्ञापनाऽनेन प्रतिपाद्यते इति, अनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिमंसूत्रम् मू. (२२५) आहेसु महापुरिसा, पुट्विं तत्ततवोधना।
उदएण सिद्धिभावना, तत्थ मंदो विसीयति ।। दृ. केचन अविदितपरमार्था 'आहुः उक्तवंतः, किं तदित्याह-यथा 'महापुरुषाः' प्रधानपुरुषा वल्कलचीरितारागणर्षिप्रभृतयः 'पूर्व पूर्वस्मिन् काले तप्तम्-अनुष्ठितं तप एव धनं येषां ते तप्तत-पोधनाः-पञ्चाग्यादितपोविशेषेण निष्टप्तदेहाः, त एवम्भूताः शीतोदकपरिभोगेन, उपलक्षणार्थत्वात् कन्दमूलफलाद्युपभोगेन च 'सिद्धिमापन्नाः' सिद्धिं गताः।
'तत्र' एवम्भूतार्थसमाकर्णने तदर्थसद्भावावेशात् 'मन्दः' अज्ञोऽस्नानादित्याजितः प्रासुकोदकपरिभोगभग्नः संयमानुष्ठाने विषीदति, यदिवा तत्रैव शीतोदकपरिभोगे विषीदति लगति निमज्जतीतियावत्, न त्वसौ वराक एवमवधारयति, यथा-तेषां तापसादिव्रतानुष्ठायिनांकुतश्चिजातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपत्त्या अपगतज्ञानावरणीयादिकर्मणां भरतादीनामिव मोक्षावाप्ति न तु शीतोदकपरिभोगादिति ।। मू. (२२६) अ जिया नमी विदेही, रामगुत्ते य भुंजिआ।
बाहुए उदगं मोचा, तहा नारायणे रिसी। वृ. किञ्चान्यत्-केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः, यदिवा स्ववर्याः शीतलविहारिण एतद् वक्ष्यमाणमुक्तवन्तः, तद्यथा-नमीराजा विदेहो नाम जनपदस्तत्र भवा वैदेहाः-तन्निवासिनो लोकास्तेऽस्य सन्तीति वैदेही। सएवम्भूतो नमी राजा अशनादिकमभुक्त्वा सिद्धिमुपगतः तथा रामगुप्तश्च राजर्षिराहा- रादिकं 'भुक्त्वैव' भुआन एव सिद्धिं प्राप्त इति, तथा बाहुकः शीतोदकादिपरिभोगं कृत्वा तथा नारायणो नाम महर्षि परिणतोदकादिपरिभोगासिद्ध इति ॥ अपिचमू. (२२७) आसिले देविले चेव, दीवायण महारिसी।
पारासरे दगं भोञ्चा, बीयाणि हरियाणि य॥ वृ. आसिलो नाम महर्षिस्तथा देविलो द्वैषायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकबीजहरितादिपरिभोगादेव सिद्धा इति श्रूयते ।। मू. (२२८) एते पुव्वं महापुरिसा, आहिता इह संमता ।
भोच्चा बीओदगं सिद्धा, इति मेयमणुस्सुअं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org