________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशक:- ४
एतदेव दर्शयतुमाह-एते पूर्वोक्ता नम्यादयो महर्षयः 'पूर्वमिति पूर्वस्मिन्काले त्रेताद्वापरादौ 'महापुरुषा' इति प्रधानपुरुषा आ- समन्तात् ख्याताः आख्याताः प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आर्हते प्रवचेन ऋ षिभाषितादौ केचन 'सम्मता' अभिप्रेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः । तद्यथा - एते सर्वेऽपि बीजोदकादिकं भुक्त्वा सिद्धा इत्येतन्मया भारतादौ पुराणे श्रुतम् एतदुपसंहारद्वारेण परिहरन्नाह
पू. (२२९)
१०७
तत्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा । पिट्टतो परिसप्पंति, पिट्ठसप्पी य संभमे ॥
वृ. 'तत्र' तस्मिन् कुश्रुत्युपसर्गोदये 'मन्दा' अज्ञा नानाविधोपायसाध्यं सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पुनरेतद्विदन्त्यज्ञाः, तद्यथा-येषां सिद्धिगमनमभूत् तेषां कुतश्चिन्निमित्तात् जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यगज्ञानचारित्राणामेव वल्कचीरिप्रभृतीनामिव सिद्धिगमनमभूत्, न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकबीजाद्युपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह-वहनं वाहो - भारोद्वहनं तेन छिन्नाःकर्षितास्त्रुटिता रासभा इव विषीदन्ति ।
यथा- रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोझ्य संयमभारं शीतलविहारिणो भवन्ति, दृष्टान्तान्तरमाह - यथा पृष्ठसर्पिणी' भग्नगतयोऽग्न्यादिसम्भ्रमे सत्युदद्भ्रान्तनयनाः समाकुलाः प्रनष्टजनस्य 'पृष्ठतः' पश्चात्परिसर्पन्ति नाग्रगामिनो भवन्ति, अपि तु तत्रैवाग्न्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति प्रवृत्ता अपि तु न मोक्षगतयो भवन्ति अपि तु तस्मिन्नेव संसारे अनन्तमपि कालं यावदासत इति ॥
मू. (२३०)
इहमेगे उभासंति, सातं सातेण विजती ।
जे तत्थ आरियं मग्गं, परमं च समाहिए ॥
वृ. मतान्तरं निराकर्तुं पूर्वपक्षयितुमाह-'इहे 'ति मोक्षगमनविचारप्रस्तावे 'एके' शाक्यादयः स्वयूथ्या वा लोचादिनोपतप्ताः, तुशब्दः पूर्वस्मात् शीतोदकादिपरिभोगाद्विशेषमाह, 'भाषन्ते' ब्रुवते मन्यन्ते वा क्वचित्पाठः, किं तदित्याह 'सातं' सुखं 'सातेन' सुखेनैव 'विद्यते' भवतीति, तथा च वक्तारो भवन्ति -
119 11 "सर्वाणि सत्त्वानि सुखे रतानि सर्वाणि दुःखाश्च समुद्विजन्ते ।
तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि ॥
युक्तिरप्येवमेव स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा - शालिबीजाच्छाल्यङ्कुरोजायते न यवाङ्कुर इत्येवमिहत्यात् सुखान्मुक्तिसुखमुपजायते, न तु लोचादिरूपात् दुःखादिति, तथा ह्यागमो ऽप्येवमेव व्यवस्थितः
|| 9 ||
“मणुण्णं भोयणं भोच्चा, मणुष्णं सयणासणं । मणुष्णंसि अगारंसि, मणुण्णं झायए मुनी || (तथा)
"मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराह्णे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥
इत्यतो मनोज्ञाहारविहारदेश्चित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेश्च मुक्त्यवाप्ति, ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
॥१॥