________________
सूत्रकृताङ्ग सूत्रम् १/३/४/२३०
केचन शाक्यादयः 'तत्र' तस्मिन्मोक्षविचार प्रस्तावे समुपस्थित आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गे जैनेन्द्रशासनप्रतिपादितो मोक्षामार्गस्तं ये परिहरन्ति, तथा च 'परमं च समाधिं' ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति ।
तथाहि यत्तैरभिहितं कारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः श्रृङ्गाच्छरो जायते गोमयावश्चिको गोलोमाविलोमादिभ्यो दूर्वेति, यदपि मनोज्ञाहारादिकमुपन्यस्तं सुखकारणत्वेन तदपि विशुचिकादिसंभवाद्व्यभिचारीति, अपिच इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् सुखाभासतया सुखमेच न भवति, तदुक्तम्
॥ १ ॥ दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपङ्किरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥
इति, कुतस्तत्परमानन्दरूपस्यात्यन्तिकैकान्तिकस्य मोक्षसुखस्य कारणं भवति, यदपि च लोचभूशयनभिक्षाटनपरपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतोपन्यस्तं तदत्यन्ताल्पसत्त्वानामपरमार्थदृशां, महापुरुषाणां तु स्वार्थाभ्युपगमप्रवृत्तानां परमार्थचिन्तैकतानानां महासत्त्वतया सर्वमेवैतत्सुखायैवेति, तथा चोक्तम् -
11911
“तणसंधारनिचिन्नेवि मुनिवरो भट्टरागमयमोहो । पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ? || (तथा)
१०८
-
"दुःखं दुष्कृतसंक्षयाय महतं क्षान्तेः पदं वैरिणः, कायस्याशुचिता विरागपदबी संवेगहेतुर्जरा सर्वत्यागमहोत्सवाय मरणं जाति सुहृत्प्रीतये, संपद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ?
इति, अपिच एकान्तेन सुखेनैव सुखेऽभ्यपगभ्यमाने विचित्रसंसाराभावः स्यात्, तथा स्वर्गस्थानां नित्यसुखिनां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्ति स्यात्, तथा नारकाणां च पुनर्दुखानुभवात्तत्रैवोत्पत्तेः, न नानागत्या विचित्रता संसारस्य स्यात्, नचैतत् दृष्टमिष्टं चेति ।। अतो व्यपदिश्यते
मू. (२३१)
मा एयं अवमन्त्रता, अप्पेणं लुंपहा बहुं । एतस्स अभोक्खाए, अओहारिव्व जूरह ।।
वृ. 'एनम्' आर्यं मार्ग जैनेन्द्रप्रवचनं सम्यग्दर्शनज्ञानचारित्रमोक्षमार्गप्रतिपादकं 'सुखं ' सुखेनैव विद्यते इत्यादिमोहेन मोहिता 'अवमन्यमानाः ' परिहरन्तः 'अल्पेन' वैषयिकेण सुखेन मा 'बहु' परमार्थसुखं मोक्षाख्यं 'लुम्पथ' विध्वंसथ, तथाहि मनोज्ञाऽऽहारादिना कामोद्रेकः, तदुद्रेकाच्च चित्तास्वास्थ्यं न पुनः समाधिरिति ।
अपि च 'एतस्य' असत्पक्षाभ्युपगमस्य 'अमोक्षे' अपरित्यागे सति 'अयोहारिव्व जूरह 'त्ति आत्मानं यूयं कदर्थयथ, केवलं, यथाऽसौ अयसो- लोहस्याऽऽहर्त्ता अपान्तराले रूप्यादिलाभे सत्यपि दूरमानीतमितिकृवा नोज्झितवान्, पश्चात् स्वावस्थानावाप्तावत्पलाभे सति जूरितवान्पश्चात्तापं कृतवान् एवं भवन्तोऽपि जूरयिष्यन्तीति ॥
पू. (२३२)
पाणाइवाते वट्टंता, मुसावादे असंजता ।
Jain Education International
अदिन्नादाणे वट्टंता, मेहुणे य परिग्गहे ।।
वृ. पुनरपि 'सातेन सात' मित्येवंवादिनां शाक्यानां दोषोद्विभावयिषयाह प्राणातिपातमृषावा
For Private & Personal Use Only
www.jainelibrary.org